________________
संगीतरत्नाकरः [ग्राम तानाः ४] (सु०) खण्डमेरुणैव लाघवेन संख्यापरिज्ञानमाह-तानस्वरेति । तानस्वरप्रमिता या ऊर्ध्वाध:पङ्क्तयः, तद्गता ये ऽन्त्याङ्काः, तेषां मिश्रणादैक्येनैकस्वरादितानानां संख्या संजायते । पङ्क्तिद्वयान्त्याकमिश्रणाद् द्विस्वरसंख्या द्वौ । पङ्क्तित्रयान्त्याङ्कमिश्रणात्त्रिस्वरसंख्या षट् । पङ्क्तिचतुष्टयान्त्याङ्कमिश्रणाच्चतु:स्वरसंख्या चतुर्विशतिः । पङ्क्तिपञ्चकान्त्याङ्कमिश्रणात्पञ्चस्वरसंख्या विंशत्युत्तरं शतम् । पङ्क्तिषटकान्त्याङ्कमिश्रणात् षट्स्वरसंख्या सप्त शतानि विंशत्युत्तराणि । सर्वासामन्याङ्कमेलनेन सप्तस्वरसंख्या पञ्च सहस्राणि चत्वारिंशदुत्तराणि ॥ तानानां नामानि कथयितुं प्रतिजानीते-अथात्रेति । षाड्जग्रामिकषड्जहीनषाडवताननामानि कथयति-अग्निष्टोम इति । षाड्जग्रामिकर्षभहीनषाडवताननामानि कथयति-स्विष्टकृदित्यादि । षाड्जग्रामिकपञ्चमहीनषाडवताननामानि कथयति--अश्वक्रान्त इति । षाड्जग्रामिकनिषादहीनषाडवताननामानि कथयति-चातुर्मास्य इति । इति षाड्जग्रामिकाष्टाविंशतिषाडवताननामानि ॥ माध्यमग्रामिकषड्जहीनषाडवताननामानि कथयति–सावित्रीत्यादि । माध्यमग्रामिकर्षभहीनषाडवताननामानि कथयति-अनिचिदिति । माध्यमग्रामिकगांधारहीनषाडवताननामानि कथयति- सर्वस्वदक्षिणेत्यादि । इति माध्यमग्रामिकैकविंशतिषाडवताननामानि ॥ षाड्जग्रामिकषड्जपञ्चमहीनौडुवताननामानि कथयति-इडा पुरुषमेधश्चेत्यादि । षाड्जग्रामिकनिषादगांधारहीनौडुवताननामानि कथयति-ज्योतिष्टोम इत्यादि । षाड्जग्रामिकपञ्चमर्षभहीनोडुवताननामानि कथयति-सौभाग्यकृदित्यादि । इति षाड्जग्रामिकैकविंशत्यौडुवताननामानि ॥ माध्यमग्रामिकधैवतर्षभहीनौडुवताननामानि कथयति-त्रैलोक्यमोहन इत्यादि । माध्यमग्रामिकनिषादगांधारहीनोडुवताननामानि कथयति-भैरव इति । इति माध्यमग्रामिकचतुर्दशौडुवताननामानि || ताननामप्रयोजनमाह-यद्यज्ञेति । यस्य तानस्य यस्याग्निष्टोमादे म तस्य तानस्य सम्यक्प्रयोगे तस्य यज्ञस्य फलमिष्यते मन्यते पूर्वाचार्यः । मूर्च्छनातानानां प्रयोजनमाह-गान्धर्व इति । मूर्च्छनास्तानाश्च गान्धर्वे मार्गगाने श्रुतिचोदिताः श्रुत्या विहिताः । श्रेयसे ऽभ्युदयाय निःश्रेयसार्थम् । ततश्च शुद्धमूर्च्छनातानादिप्रयोगस्य धर्मत्वमपि सूच्यते, 'यतो ऽभ्युदयनिःश्रेयससिद्धिः स धर्मः' इत्यङ्गीकारात् । गान इति । गाने देशीगाने ते शुद्धमूर्च्छनास्तानाः कूटतानाश्च स्थानस्य लाभेन रञ्जकस्थायविशेषलाभेन चोपयोगिनो
Scanned by Gitarth Ganga Research Institute