SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १४५ क्रमतानाः ४] प्रथमः स्वरगताध्यायः यद्यज्ञनामा यस्तानस्तस्य तत्फलमिष्यते ॥ ९० ॥ गान्धर्वे मूर्च्छनास्तानाः श्रेयसे श्रुतिचोदिताः । गाने स्थानस्य लाभेन ते कूटाश्चोपयोगिनः ।। ९१ ।। गान्धर्व इति । गान्धर्व वक्ष्यमाणलक्षणो गीतविशेषस्तत्र । मूर्च्छनास्ताना इति । तानाः शुद्धतानाः । ते च शुद्धा इति प्रकरणाल्लभ्यते । तत्साहचर्यान्मुर्छना अपि शुद्धा एव विवक्षिताः । श्रेयसे ऽदृष्टफलाय । श्रुतिचोदिता इति । श्रुतिशब्देन तदनुगृहीताः स्मृतयो ऽप्युपलक्ष्यन्ते ; ताभिश्चोदिताः । तद्यथा 'उत्तरमन्द्राऽनुगता गायत्तिस्रो मुदा युक्तः । गांधारा रक्षोनीत्यौद्गात्रे मूर्च्छना विहिताः ॥ आमिष्टोमिकतानेन गीतं साम शृणोति यः । स सर्वपातकैर्मुक्तो लोकाञ्जयति दुर्जयान् । दक्षप्रोक्तं पठेद्यस्तु वर्णयन्शुद्धषड्जया । प्रत्यहं संध्ययोः स्तोत्रं नाकलोकं स गच्छति ॥ आमिष्टोमिकतानेन यैर्नरैः स्तूयते शिवः । ते भुक्त्वा विपुलान्भोगाशिवसायुज्यमाप्नुयुः ॥' इति । कूटतानानां तु केवलं दृष्टफलत्वेनोपयोगमाह-गान इति । गानं च वक्ष्यमाणलक्षणं तस्मिन् । स्थानस्य तत्तन्मूच्छनावशेन सारितानां स्वराणामाधारश्रुतेर्लाभेन परिज्ञानेन ॥ ७१-९१ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy