________________
संगीतरत्नाकरः
[प्राममूर्च्छनाइडा पुरुषमेधश्च श्येनो वज्र इषुस्ततः । अङ्गिराः कङ्क इत्येताः सपहीनाभिधाः क्रमात् ॥ ८३ ॥ ज्योतिष्टोमस्ततो दर्शो नान्द्याख्यः पौर्णमासकः । अश्वप्रतिग्रहो रात्रिः सौभरः सप्तमः स्मृतः ।। ८४ ॥ एता निपादगांधारहीनानामभिधाः क्रमात् । सौभाग्यकृच्च कारीरी शान्तिकृत्पुष्टिकृत्तथा ।। ८५ ।। वैनतेयोच्चाटनौ च वशीकरणसंज्ञकः । पञ्चमर्षभहीनानां तानानामभिधा इमाः ।। ८६ ॥
इति पाड्जग्रामिकैकविंशत्यौडुवताननामानि |
त्रैलोक्यमोहनो वीरः कंदर्पवलशातनः ।। ८७ ॥ शङ्खचूडो गजच्छायो रौद्राख्यो विष्णुविक्रमः । तानानां रिधहीनानां नामान्येतान्यनुक्रमात् ।। ८८ ॥ भैरवः कामदाख्यश्चावभृथो ऽष्टकपालकः ।। स्विष्टकृच्च वपट्कारो मोक्षदः सप्तमो मतः ॥ ८९॥ संज्ञा निषादगांधारहीनानामिति संमताः ।
इति माध्यमग्रामिकचतुर्दशौडुवताननामानि |
क्रमात् , द्वयङ्कमिश्रणे द्विस्वरतानसंख्या व्यङ्कमिश्रणे त्रिस्वरतानसंख्येत्यादिः क्रमस्तस्मात् । कूटतानोपयोगित्वेन खण्डमेरुं निरूप्य प्रसङ्गाच्छुद्धतानानामदृष्टफलसंबन्धं च कथयिप्यस्तेषां यज्ञानामभिधेयत्वं वक्तुमुपक्रमते-- अथात्रेत्यादिना । शुद्धतानानां यज्ञफलसंबन्धे किं प्रमाणमित्यत आह
Scanned by Gitarth Ganga Research Institute