________________
क्रमताना
प्रथमः स्वरगताध्यायः
क्रमादृपभहीनानां तानानामभिधा इमाः । अश्वक्रान्तो रथक्रान्तो विष्णुकान्तस्ततः परः ॥ ७५ ॥ मूर्यक्रान्तो गजक्रान्तो वलभिन्नागपक्षकः । इति पञ्चमहीनानां संज्ञाः सप्त क्रमान्मताः ॥ ७६ ।। चातुर्मास्यो ऽथ संस्थाऽऽख्यः शस्त्रश्चोक्थश्चतुर्थकः । सौत्रामणी तथा चित्रा सप्तमस्तूद्भिदायः ।। ७७ ॥ संज्ञा निपादहीनानां पाडवानामिमाः क्रमात् ।
इति षाड्जग्रामिकाष्टाविंशतिताननामानि ।
सावित्री चार्घसावित्री सर्वतोभद्रसंज्ञकः ॥ ७८ ॥ आदित्यानामयनश्च गवामयननामकः । सर्पाणामयनः पष्ठः सप्तमः कोणपायनः । नामानि पड्जहीनानां तानानामिति मेनिरे ॥ ७९ ॥ अग्निचिद् द्वादशाहश्थोपांशुः सोमाभिधस्ततः । अश्वप्रतिग्रहो वर्हिरथाभ्युदयसंज्ञकः ॥ ८ ॥ ऋषभेण विहीनानामिति नामानि मन्यते । सर्वस्वदक्षिणो दीक्षा सोमाख्यः समिदाह्वयः । ८१ ॥ स्वाहाकारस्तनूनपात्ततो गोदोहनो मतः । इति गांधारहीनानां क्रमात्संज्ञाः प्रचक्षते ॥ ८२ ॥
इति माध्यमग्रामिकैकविंशतिषाडवताननामानि ।
संभवं द्वित्र्यादीनां मिश्रणात् । एकस्वरादितानानां संख्या पूर्वोक्ता, एकस्वरस्यैको द्विस्वरस्य द्वौ त्रिस्वरस्य षट् चतुःस्वरस्य चतुर्विंशतिरित्यादिरूपा ।
Scanned by Gitarth Ganga Research Institute