SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १४२ संगीतरत्नाकरः [ग्राममूर्च्छनातानस्वरमितोर्ध्वाधःपङ्क्तिगान्त्याङ्कमिश्रणात् । एकस्वरादितानानां संख्या संजायते क्रमात् ।। ७१ ।। अथात्र शुद्धतानानां नामानि व्याहरामहे ।। अग्निष्टोमो ऽत्यग्निष्टोमो वाजपेयश्च षोडशी ।। ७२ ॥ पुण्डरीको ऽश्वमेधश्च राजमूयस्ततः परः । इति स्युः षड्जहीनानां सप्त नामान्यनुक्रमात् ॥ ७३ ॥ स्विष्टकृद्धहुसौवर्णो गोसवश्च महाव्रतः । विश्वजिब्रह्मयज्ञश्च प्राजापत्यस्तु सप्तमः ॥ ७४ ॥ धैवतो नष्टस्य सप्तमस्वरत्वेन लेख्यः । मूलक्रमे धैवतो लोप्यः । ततः षष्ठपङ्क्तौ तृतीयकोष्टके लोष्टकस्तिष्ठतीति मूलक्रमस्यान्त्यान्निषादात्तृतीयो मध्यमो नष्टस्य षष्ठस्वरत्वेन लेख्यः । मूलक्रमे मध्यमो लोप्यः । ततः पञ्चमपङ्क्तौ लोष्टकस्य द्वितीयकोष्टावस्थितत्वान्मूलक्रमान्त्यान्निषादाद् द्वितीयः पञ्चमो नष्टस्य पञ्चमस्वरत्वेन लेख्यः । मूलक्रमे पञ्चमो लोप्यः । ततश्चतुर्थपङ्क्तौ तृतीयकोष्टके द्वादशाङ्कस्थाने लोष्टकस्तिष्ठतीति मूलक्रमस्यान्त्यान्निषादात्तृतीय ऋषभो नष्टस्य चतुर्थस्वरत्वेन लेख्यः । मूलकम ऋषभो लोप्यः । ततस्तृतीयपङ्क्तौ द्वितीयकोष्ठके लोष्टकावस्थानान्मूलक्रमस्यान्त्यान्निषादाद्गांधारो नष्टस्य तृतीयस्वरत्वेन लेख्यः । मूलक्रमे गांधारो लोप्यः । ततो द्वितीयपङ्क्तावपि द्वितीयकोष्टके लोष्टकावस्थिते लक्रमस्यान्त्यान्निषादाद् द्वितीयः षड्ज एव नष्टतानद्वितीयत्वेन लेख्यः । मूलक्रमे षड्जो लोप्यः । ततश्चावशिष्टो निषादो नष्टस्याद्यस्वरत्वेन लेख्यः । एवं च निसगरिपमधेति सप्तस्वरेषु सहस्रतमो भेदो लभ्यते । एवं षट्स्वरादिषु ज्ञातव्यम् ॥ -६८-७० ॥ (क०) अत्र खण्डमेरावपि तानसंख्याज्ञानोपायमाह-तानस्वरेति । तानस्वरमितोर्ध्वाध:पङ्क्तिगान्त्याङ्कमिश्रणात , तानस्यैकस्वरादिप्वन्यतमस्य स्वरा यावन्तस्तैर्मितास्तत्संख्यापरिच्छिन्नाः, तत्समसंख्याका इत्यर्थः ; या ऊर्ध्वाधःपङ्क्तयस्ता गच्छन्तीत्यूर्ध्वाध:पङ्क्तिगाः, त एवान्त्याङ्कास्तेषां यथा Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy