SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १४१ क्रमतानाः ४] प्रथमः स्वरगताध्याय: अधःक्रमादस्ति लोष्टः स्वरस्तावतिथो भवेत् । क्रमान्तिमस्वरात्पूर्वो लब्धत्यागादि पूर्ववत् ।। ७०॥ शेप्यान्मध्यमस्तानपूरकत्वेन नष्टादिमो लभ्यते । तदा मगसरीति नष्टतानरूपं स्यात् । किं च यत्र यत्रान्ते मध्ये वा लोप्टचालनं नास्ति तत्र तत्र मूलक्रमान्त्यादिः स्वरो नष्टो ऽपि तादृशो लभ्यत इत्यवगन्तव्यम् ॥-६८-७०॥ (सु०) नष्टपरिज्ञानप्रकारं कथयति-यैरवरिति । नष्टसंख्या यैररेकीभूतैर्भवेत्प्रथमपङ्क्तिप्रथमकोष्ठस्थमौलकाङ्कसहितैः, तेषु कोष्टाङ्केषु लोष्टकं क्षिपेत् । मौलं सर्वासां पङ्क्तीनां शून्यसंयुक्तप्रथमकोष्टस्थमिति लोष्टविशेषणम् । एकस्यां पङ्क्तौ कोष्टद्वये लोष्टकं न स्थापयेदित्याह-लोटस्थानमिति । नष्टतानस्वराणां स्थानं लोष्टस्थानमितं लोष्टकस्थानप्रमाणकम् । यावन्ति लोष्टस्थानानि तावन्त्येव स्वरस्थानानि । ततश्च प्रतिपङ्क्तयेकैकस्मिन्कोष्ठके लोष्टकं स्थापयित्वा प्रथमपङ्क्तिस्थैकाङ्केन समं नष्टसंख्या पूरणीया । एवं लोष्टकेषु स्थापितेषु किं वर्तत इत्यपेक्षायामाह-तत इति । ततो ऽनन्तरं यावतिथे पदे कोष्ठके ऽध:क्रमादधो गणने शून्यस्थानाल्लोष्टकं तिष्ठति क्रमस्यान्तिमस्वरात्तावत्संख्याकः स्वरो बोद्धव्यः । लब्धत्यागादि पूर्ववदिति । य: स्वरो लब्धः स लोप्यः । आदिशब्देन सप्तस्वरनष्टविचारः सप्तकोष्टपङ्क्तिषु, षट्स्वरनष्टविचारः षट्कोष्ठपङ्क्तिषु, पञ्चस्वरनष्टविचार: पञ्चकोष्ठपङ्क्तिष्वित्यादि बोद्धव्यम् । अयमत्र परिज्ञानक्रमः-सहस्रतमो भेदः सप्तस्वरप्रस्तारे कीदृगिति प्रश्ने, सप्तम्यां पङ्क्तौ शून्यादधो द्वितीयकोष्टके सविंशतिकसप्तशतस्थाने लोष्टक: स्थाप्यः । षष्टपङ्क्तौ शून्यादधस्तृतीयकोष्ठके चत्वारिंशदधिकशतद्वयस्थाने लोष्टकः स्थापनीयः । पञ्चमपङ्क्तौ शून्यादधो द्वितीयकोष्ठके चतुर्विशत्यङ्कस्थाने लोष्टकं स्थापयेत् | चतुर्थपङ्क्तौ तृतीयकोष्टके द्वादशाङ्कस्थाने लोष्टकं स्थापयेत् । तृतीयपङ्क्तौ शून्यादधो द्वितीयकोष्टके व्यङ्कस्थाने लोष्टकं स्थापयेत् । द्वितीयपङ्क्तौ शून्यादधो द्वितीयकोष्ठक एकाङ्कस्थाने लोष्टकं स्थापयेत् । एतैरकर्मोलिकाङ्कसमन्वितैः सहस्रसंख्या पूर्यते । ततः सप्तमपङ्क्तौ द्वितीयकोष्ठके लोष्टकस्तिष्ठतीति मूलकमस्यान्त्यान्निषादाद् द्वितीयो Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy