SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १४० संगीतरत्नाकरः [ग्राममूर्च्छनायैरकैनष्टसंख्या स्यान्मौलैकाङ्कसमन्वितैः ॥ ६८ ॥ तेषु लोष्टं क्षिपेन्मूले' लोष्टस्थानमितं भवेत् । नष्टतानस्वरस्थानं ततो यावतिथे पदे ॥ ६९ ॥ (क०) एतावतिथ इति संख्याविशेषमुक्त्वा किंरूप इति स्वरूपं विषयीकृत्य यः पृच्छ्यते सो ऽप्रतीयमानरूपत्वान्नष्ट इत्युच्यते । नष्टसंख्या नष्टतानसंख्या । उत्तरमन्द्रायां चतु:स्वरक्रमे तावदष्टादशस्तान इत्युक्त्वा मौलैकाङ्कसमन्वितैः, तिर्यक्पङ्क्तिप्वाद्या सप्तकोष्ठिका पङ्क्तिर्मुलम् , तत्र भवो मौलः, स चासावेकाङ्कश्च, तत्राद्यकोष्ठस्थित इति यावत् ; तेन समन्वितैः ; यैरकैभिन्नपङ्क्तिकोष्ठस्थितैः, चतुर्थपङ्क्तौ द्वादशाङ्केन तृतीयपङ्क्तौ चतुरकेण द्वितीयपङ्क्तावेकाङ्केन चैतैर्मिलितैरष्टादशसंख्या स्यात् , तेप्वकेषु लोप्टं प्रत्येकं क्षिपेत् । नष्टतानस्वरस्थानं नष्टतानस्वरस्य प्रापर्क स्थानम् , चालितलोष्टाक्रान्तकोष्ठ इत्यर्थः । मले तिर्यगाद्यपङ्क्तौ, लोष्टस्थानमितम् , लोप्टस्थानं बिन्दुकोष्ठस्तेन मितम् । बिन्दुकोप्ठेन सह परिगणितमित्यर्थः । अन्यथा स्वकोष्ठकाकोष्ठसंख्यागुणमित्यत्रोक्तनियमो ऽत्रापि प्रसरेदित्येवमुक्तम् । ततो ऽनन्तरम् , अधः क्रमाद्यावतिथे पदे लोष्टोऽस्ति क्रमान्तिमस्वरात्पूर्वस्तावतिथः स्वरो भवेदिति । प्रकृते ऽष्टादशे ताने ऽन्त्यलोष्टस्य तृतीयकोष्ठस्थितत्वात्क्रमान्तिमस्वरात्पूर्वस्तृतीय ऋषभो नष्टतानान्तिमत्वेन लभ्यते । लब्धत्यागादि पूर्ववदित्यतिदेशः । तदुद्दिष्टोक्तप्रकारेण कर्तव्यमित्यर्थः । तथा च कृते सति, ऋषभं त्यक्त्वा सगमेति क्रमो भवति । तद्वदुपान्त्यलोष्टस्यापि तृतीयकोष्ठस्थितत्वात्क्रमान्तिमस्वरात्पूर्वस्तृतीयः षड्जो नष्टोपान्त्यत्वेन लभ्यते । ततो ऽपि गमेति क्रमो द्वितीयलोष्टस्य द्वितीयकोष्ठस्थितत्वात्क्रमान्तिमाद् द्वितीयो गांधारो नष्टद्वितीयत्वेन लभ्यते । ततः पारि क्षिपेन्मौलं. Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy