________________
क्रमताना प्रथमः स्वरगताध्यायः
१३९ स्वरप्रमाणान्येव लोष्टकानि देयानि । दृष्टान्तार्थमुद्दिष्टपरिज्ञानप्रकारो दर्श्यते । नष्टोद्दिष्टप्रश्ने सरिगमेति क्रमो लेख्यः । मगरिसेत्युद्दिष्टम् । तत्रोद्दिष्टस्यान्त्यः षड्जो मूलक्रमस्यान्त्यान्मध्यमात्पूर्वगणने सति चतुर्थः । तस्माच्चतुर्थकोष्ठकशून्यस्थं लोष्टकमधश्चतुर्थकोष्टके ऽष्टादशाङ्कस्थाने क्षिपेत् | उद्दिष्टे मूलक्रमे च षड्जो लोप्यः । तत उद्दिष्टान्त्य ऋषभो मूलक्रमस्यान्यान्मध्यमात्तृतीयः । तस्मात्तृतीयकोष्ठशून्यस्थं लोष्टकमधस्तृतीयकोष्ठके चतुरङ्कस्थाने क्षिपेत् । ऋषभो लोप्यः । तत उद्दिष्टान्त्यो गांधारो मूलक्रमस्यान्त्यान्मध्यमाद् द्वितीयः । तस्माद् द्वितीयकोष्ठस्थं लोष्टकमधो द्वितीयकोष्टक एकाङ्कस्थाने क्षिपेत् । तत उद्दिष्टान्त्यो मूलक्रमस्यान्त्यात्प्रथम एव । तत्र लोष्टाभावाचालनं नास्ति । एषामङ्कानां संयोगे सति चतुर्विशतिसंख्या लभ्यते । तस्मान्मगरिसेति चतुर्विशतितमो भेद: सिद्धो भवति । एवं सप्तस्वरप्रस्तारे मगसरिधनिपेति किंसंख्याको भेद इति पृच्छायां सरिगमपधनीति मूलक्रमः स्थापनीयः । उद्दिष्टान्त्यः पञ्चमो मूलक्रमस्यान्त्यान्निषादात्तृतीयः । ततश्च सप्तमपङ्क्तौ शून्यादधस्तृतीयकोष्टके चत्वारिंशदुत्तरचतुर्दशशतस्थाने लोष्टक: स्थाप्यः । पञ्चम उभयत्रापि लोप्यः । तत उद्दिष्टान्त्यो निषादो मूलक्रमस्यान्त्यान्निषादात्प्रथम एव । ततश्चालनं नास्ति । षष्ठपङ्क्तौ शून्यस्थान एव लोष्टकावस्थितिः । तथैवोद्दिष्टे मूलक्रमे च निषादो लोप्यः । तत उद्दिष्टान्त्यो धैवतो मूलक्रमस्यान्त्या?वतात्प्रथम एव । ततश्चालनं नास्ति । ततश्च पञ्चमकोष्ठे शून्यस्थान एव लोष्टकावस्थितिः । मूलक्रम उद्दिष्टे च पूर्ववद्वैवतो लोप्यः । तत उद्दिष्टान्त्य ऋषभो मूलक्रमस्यान्त्यान्मध्यमात्तृतीयः । ततश्च चतुर्थपङ्क्तौ शून्याधस्तृतीयकोष्ठके द्वादशाङ्कस्थाने लोष्टकः स्थाप्यः । मूलक्रम उद्दिष्टे च ऋषभो लोप्यः । ततश्चोद्दिष्टान्त्यः षड्जो मूलक्रमस्यान्त्यान्मध्यमात्तृतीयः । ततस्तृतीयकोष्ठस्थचतुर्थपङ्क्तौ शून्यादधस्तृतीयकोष्ठके चतुरङ्कस्थाने स्थाप्यः । उद्दिष्टे मूलक्रमे च षड्जो लोप्यः । तत उद्दिष्टान्त्यो गांधारो मूलक्रमस्यान्त्यान्मध्यमाद् द्वितीयः । ततश्च द्वितीयपङ्क्तौ शून्यादध एकाङ्कस्थाने लोष्टकः स्थापनीयः । मूलकम उद्दिष्टे च गांधारो लोप्यः । ततश्च मध्यमस्यैक्यालोष्टचालनं नास्ति । लोष्टाक्रान्तानामङ्कानां संयोगे चाष्टापञ्चाशदधिकानि चतुर्दश शतानि भवन्ति । तावत्संख्याको मगसरिधनिपेत्येवं भेदो बोध्यः । एवमेव षट्स्वरादिश्वप्युद्दिष्टपरिज्ञानप्रकार ऊह्यः ॥ -६६-६७- ॥
Scanned by Gitarth Ganga Research Institute