SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १३८ संगीतरत्नाकरः [ग्राममूर्च्छनापङ्क्तौ बिन्दुकोष्ठस्थितं लोष्टकं क्षिपेत् । अनन्तरं लब्धं कोष्ठस्थाङ्कप्रापकत्वेन चरितार्थमृषभं त्यक्त्वा शिष्टानां स्वराणां सगमेति क्रमो भवेत् । तदोद्दिष्टे ऽपि लब्धत्यागान्मगसेत्युद्दिष्टो भवेत् । पुनरप्युद्दिष्टान्त्यः षड्जः पूर्वोक्तरीत्या तृतीयो यतस्तेन तृतीयपङ्क्तिबिन्दुस्थितं लोष्टकमधस्तृतीय चतुरङ्काकिते क्षिपेत् । तदा षड्जे लब्धे तमपि त्यक्त्वा गमेति क्रमः स्यात् । मगेत्युद्दिष्टो ऽपि स्यात् । पुनरप्युद्दिष्टान्त्यस्य गांधारस्योक्तरीत्या द्वितीयत्वाद्वितीयपङ्क्तिबिन्दुस्थितं लोष्टकमधो द्वितीये कोष्ठ एकाङ्काङ्किते क्षिपेत् । ततो मलक्रमोद्दिष्टयोरवशिष्टस्य मध्यमस्यैकत्वात्प्रथमपङ्क्तेरधः कोष्ठाभावाच्च मौलिकाङ्कस्थितो लोप्टो न चलति । यत्र पुनर्मूलक्रम उद्दिष्टताने च स्वराणामन्त्यत्वादिना साम्यं तत्रापि न लोष्टचालनम् । एवं च सति 'लोष्टाक्रान्ताङ्कसंयोगादुद्दिष्टस्य मितिर्भवेत् । इति प्रकृतस्य मगसरीत्यस्याष्टादशत्वं प्रमितं भवति । एवं सर्वतानेप्वपि द्रष्टव्यम् ॥ -६६-६७. ॥ (सु०) एवं नष्टोद्दिष्टपरिज्ञानोपायं खण्डमेरुमुक्त्वोद्दिष्टपरिज्ञानमाहस्वरादिति । मूलक्रमस्यान्त्यात्स्वरादुद्दिष्टस्यान्त्यः स्वरः पूर्व गणने सति यावतिथो यावत्संख्यापूरणस्तावतिथे तावत्संख्यापूरणे ऽधः कोष्टके लोष्टकं क्षिपेत्स्थापयेत् । इदं लोष्टचालनं कस्मात्प्रभृति कर्तव्यमित्यपेक्षायामाह-लोप्टचालनमन्यात्स्यादिति । अन्त्यादिति ल्यब्लोपे पञ्चमी । अन्त्यमारभ्य लोष्टचालनं स्यात् । एवं लोष्टचालने कृते लब्धं लब्धसंज्ञकं स्वरं त्यक्त्वा लुप्त्वा तेन हीनः क्रमो भवेदिति कर्तव्य इत्यर्थः । तत्रापि क्रमे मूलक्रमस्यान्त्यादित्यादिपूर्वोक्तप्रकारः कर्तव्यः । एवं कृते येषु येवङ्केषु लोष्टकानि यान्ति तेषामङ्कानां संयोगादुद्दिष्टस्य मानं भवति । तत्र च त्रिस्वरकूटतानपरिज्ञाने त्रिकोष्ठक एव खण्डमेरुः । चतुःस्वरपरिज्ञाने चतुःकोष्ठकः । पञ्चस्वरपरिज्ञाने पञ्चकोष्ठकः । षट्स्वरपरिज्ञाने षट्कोष्ठकः । सप्तस्वरपरिज्ञाने सप्तकोष्ठक इति ज्ञातव्यम् । Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy