SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः [ग्राममूर्च्छनाकोष्ठे तं कोष्ठसंख्यया द्विगुणीकृत्य द्वादशाकं लिखेत् । ततो ऽप्यध:कोष्ठे तं षडकमेव कोष्ठसंख्यया त्रिगुणीकृत्याष्टादशाकं लिखेत् । एवं पञ्चम्यादिषु पङ्क्तिपु प्राक्पङ्क्त्यन्त्याङ्कसंयोगादिप्रकारेण लिखेदिति ॥ ६५, ६५- ॥ (सु०) द्वितीयपङ्क्तावविन्यासं कथयति-प्राक्पङ्क्तीति । ऊर्ध्वाध:स्थितपङ्क्तिध्वधःस्थिता याः पङ्क्तयस्तासु प्राक्पङ्क्त्यन्त्याङ्कसंयोगं लिखेत् । यद्येका प्राक्पङ्क्तिस्तर्हि तस्या अन्त्याको लेख्यः । यदि प्राक्पङ्क्ती द्वे तदा तयोः संयोगो लेख्यः । यदि बह्वयः प्राक्पङ्क्तयस्तदा तासां संयोगो लेख्यः । क लेख्य इत्यपेक्षायामाह-शून्यादध इति । तं चान्त्याङ्कसंयोगरूपमवं स्वकोष्ठकात् , यत्रासावङ्कः स्थापितस्तत्स्वकोष्ठकम , तस्मादधो ऽधो ऽधराधरकोष्ठकेषु कोष्टसंख्यागुणितं न्यस्येत् । द्वितीयकोष्टके द्विगुणं तृतीयकोष्टके त्रिगुणं चतुर्थकोष्टके चतुर्गुणं पञ्चमकोष्ठके पश्चगुणं षष्ठकोष्टके षड्गुणमिति । ततश्च षट्कोष्ठिकाया द्वितीयपङ्क्तेः प्रथमकोष्ठे प्राक्पङ्क्तरेकस्या अन्त्याङ्क एकाङ्को देयः । अधः कोष्टाभावाद् द्वैगुण्यादि नास्ति । तस्या एव पङ्क्ते द्वितीयकोष्ठे द्वयोः प्राक्पङ्क्त्योरन्याङ्क एक एकश्च, अनयोः संयोगे द्वयको देयः । तस्याधःकोष्ठके तमङ्घ द्विगुणं चतुरङ्क दद्यात् । तृतीयकोष्टके प्राक्पङ्क्तयस्तिस्रः । तासामन्याङ्का एक एकश्चत्वारः । तेषां संयोगात्षडङ्को देयः । द्वितीयाध:कोष्ठके द्विगुणः षड् द्वादशाको देयः । तदधःकोष्ठके त्रिगुणः षडष्टादशाको देयः । द्वितीयपङ्क्तिचतुर्थकोष्ठ के प्राक्पङ्क्तयश्चतस्रः । तासामन्त्याङ्का एक एकश्चत्वारो ऽष्टादश । तेषां संयोगे चतुर्विशतिर्देया । तदधो द्वितीयकोष्टके द्विगुणा ऽष्टाचत्वारिंशत् | तदधस्तृतीयकोष्टके त्रिगुणा द्वासप्ततिः । तदधश्चतुर्थकोष्टके चतुर्गुणा षण्णवतिः । द्वितीयपतिपञ्चमकोष्ठके प्राक्पङ्क्तयः पञ्च । तासामन्त्याङ्का एक एकश्चत्वारो ऽष्टादश षण्णवतिः । तेषां संयोगे विंशत्युत्तरं शतं देयम् । तदधो द्वितीयकोष्ठके द्विगुणं चत्वारिंशदधिकं शतद्वयं देयम् । तृतीयकोष्ठके त्रिगुणं षष्टयधिकं शतत्रयम् | चतुर्थकोष्ठके चतुर्गुणमशीत्यधिकं शतचतुष्टयम् । अध:कोष्ठके पञ्चमे पञ्चगुणं षट्शती। द्वितीयपङ्क्तेः षष्ठकोष्ठे प्राक्पङ्क्तयः षट् । तासामन्याङ्का एक एकश्चत्वारो ऽष्टादश षण्णवतिः षट्शती । तेषां संयोगे विंशत्युत्तरा सप्तशती देया । तदधो द्वितीयकोष्टके द्विगुणा सा चत्वारिंशदधिकानि चतुर्दश शतानि देयानि । तृतीयकोष्ठके त्रिगुणा Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy