________________
१३५
क्रमतानाः ४] प्रथमः स्वरगताध्याय:
प्राक्पङ्क्त्यन्त्याङ्कसंयोगमूर्ध्वाधःस्थितपङ्क्तिपु । शून्यादधो लिखेदेकं तं चाधो ऽधः स्वकोष्ठकान् ॥ ६५ ॥ कोष्ठसंख्यागुणं न्यस्येत्खण्डमेरुरयं मतः ।
खं शून्यं लिखेत् । तेश्वेव प्रथमपङ्क्तिकोष्ठकेषु लोष्टकान्कर्करान्यस्येत्स्थापयेत् । कियतो लोष्टकान्? वेद्यतानस्वर मितान् ; वेद्यो यस्तानस्त्रिस्वरश्चतुःस्वर: पञ्चस्वरः षट्स्वरः सप्तस्वरो वा तत्स्वरसंख्याकान् । यदि त्रिस्वरो जिज्ञासितस्तदा ऽऽदित आरभ्य त्रिषु कोष्ठकेषु त्रील्लोष्टकान्यस्येत् । यदि चतु:स्वरो जिज्ञासितस्तदा ऽऽदित आरभ्य चतुषु कोष्ठकेषु चतुरो लोष्टकान्यस्येत् । यदि पञ्चस्वरो जिज्ञासितस्तदा पञ्चेत्यादि द्रष्टव्यम् । लोष्टन्यसनोपयोगमनुपदमेव वक्ष्यति ॥ ६३, ६४ ॥
(क०) ऊर्ध्वाधःस्थितपङ्क्तिपूर्वाधःस्थितकोष्ठानां पङ्क्तिषु । अत्र स्थितेति विशेषणपदस्य विशेष्यकोष्ठपदसापेक्षत्वेन समासः । प्राक्पङ्क्त्यन्त्याङ्कसंयोगम् , प्राक्पङ्क्तेः प्राक्पङ्क्त्योः प्रावपङ्क्तीनां वा यथासंभवमत्याङ्कस्यान्त्याङ्कयोरन्त्याकानां वा संयोगम् , संयोगोत्पन्नमकान्तरमित्यर्थः । संनिहितपरपङ्क्तौ शून्याद बिन्द्वाक्रान्तकोष्ठादधःकोष्ठे लिखेत् । एतदुक्तं भवति-द्वितीयपङ्क्तौ प्राक्पङ्क्त्यन्त्याङ्कस्यैकत्वेन संयोगस्याभावादेकाङ्कमेव लिखेत् । तृतीयपङ्क्तौ तु प्राक्पङ्क्त्योरन्त्याङ्कयोः संभवेन तत्संयोगोत्पन्नं द्वयकं शून्यादधो लिखेदिति । तं च द्वयकादिकं च स्वकोष्ठकात्स्वेनाधिष्ठितं कोष्ठमारभ्याधो ऽधः ; कोष्ठसंख्यागुणम् , कोष्ठयोः कोष्ठानां वा संख्या कोष्ठसंख्या, तस्या गुणो यस्मिन्कर्मणीति क्रियाविशेषणम् । अयमर्थःतृतीयपङ्क्तौ द्वयकाधिष्ठितकोष्ठेन सहाधःकोष्ठस्य द्वितीयस्य संभवात्तत्र द्वयकं द्विगुणीकृत्य चतुरङ्क लिखेत् । चतुर्थपङ्क्तावपि प्राक्पङ्क्तीनामत्याङ्कानां संयोगिनां षडकं तत्र शून्यादधो लिखेत् । ततः संनिहिताधः
Scanned by Gitarth Ganga Research Institute