SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ क्रमताना: ४] प्रथमः स्वरगताध्यायः १३३ सप्तायेकान्तकोष्ठानामधो ऽधः सप्त पङ्क्तयः ॥ ६३ ॥ दशो भेदः । ततो मध्यमस्याधस्तात्पड्जः । पुरो गरी। पश्चान्मः । एवं मसगरीति षोडशो भेदः । ततो गांधारस्याधस्तात्षड्जः । पुरो रिः । पश्चाद्गमौ । एवं गमसरीति सप्तदशो भेदः । ततो मध्यमस्याधस्ताद्गांधारः । पुरः सरी । पश्चान्म: । एवं मगसरीत्यष्टादशो भेदः । तत ऋषभस्याधस्तात्षड्जः । पश्चाद्रिगमाः । एवं रिंगमसेत्यूनविंशतितमो भेदः । ततो गांधारस्याधस्तादृषभः । पुरो मसौ। पश्चाद्गः । एवं गरिमसेति विंशतितमो भेदः । ततो मध्यमस्याधस्ताद्गांधारः । पुरः सः । पश्चाद्रिमौ । एवं रिमगसेत्येकविंशतितमो भेदः । ततो मध्यमस्याधस्तादृषभः । पुरो गसौ। पश्चान्मः । एवं मरिगसेति द्वाविंशतितमो भेदः । ततो गांधारस्याधस्तादृषभः । पुरः सः । पश्चाद्गमौ । एवं गमरिसेति त्रयोविंशतितमो भेदः । ततो मध्यमस्याधस्ताद्गांधारः । पुरो रिसौ । पश्चान्मः । एवं मगरिसेति चतुर्विंशतितमो भेदः । ततो विपरीतक्रमसद्भावात्प्रस्तारलक्षणाभावाच्च प्रस्तारो नास्ति । अनेनैव प्रकारेण पञ्चस्वरादिषु प्रस्तार: कर्तव्यः । तत्र सरिगमपेति पञ्चस्वरप्रस्तारे पान्ताश्चतुर्विशतिः । ततो मान्ताश्चतुर्विशतिः । ततो गान्ताश्चतुर्विशतिः । ततो यन्ताश्चतुर्विशतिः । ततः सान्ताश्चतुर्विशतिः । एवं पञ्चस्वरप्रस्तारे विंशत्युत्तरं शतं भेदा भवन्ति । सरिगमपधेति षट्स्वरप्रस्तारे धान्ता विंशत्युत्तरं शतम् । पान्ताश्च विंशत्युत्तरं शतम् । मान्ताश्च विंशत्युत्तरं शतम् । गान्ताश्च विंशत्युत्तरं शतम् । यन्ताश्च विंशत्युत्तरं शतम् । सान्ताश्च विंशत्युत्तरं शतम् । एवं विंशत्युत्तराणि सप्त शतानि षट्स्वरभेदा भवन्ति । सरिगमपधनीति सप्तस्वरप्रस्तारे तु निषादान्ता विंशत्युत्तराणि सप्त शतानि । ततो धान्ता विंशत्युत्तराणि सप्त शतानि । ततः पान्तास्तावन्ति । ततो मान्तास्तावन्ति । ततो गान्तास्तावन्ति । तत ऋषभान्तास्तावन्ति । ततः सान्तास्तावन्ति । एवं सप्तस्वरप्रस्तारे चत्वारिंशदुत्तराणि पञ्च सहस्राणि भेदा भवन्ति ॥ ६२, ६३- ॥ (क०) एवं प्रस्तुतेषु कूटेषु नष्टोद्दिष्टतानबोधार्थ खण्डमेरुं लक्षयति- सप्तादीति । सप्तायेकान्तकोष्ठानाम् , सप्तादयो येषां ते सप्तादयः, Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy