________________
१३२ संगीतरत्नाकरः
[प्राममूर्च्छनातदा तस्यापि पूर्वः। एवं निषादमारभ्य षड्जपर्यन्तं विचारणीयम् । तत्रापि षड्जपर्यन्ताः स्वरा: पुरस्तात्तिष्ठन्ति चेत्तं स्वरं विहाय द्वितीये स्वरे प्रस्तारश्चिन्तनीयः । तत्रापि षड्जपर्यन्ता: स्वराः पुरस्तात्तिष्ठन्ति चेत्तदा ऽन्यस्मिन्स्वरे प्रस्तारश्चिन्तनीयः । एवं विचार्य पूर्वस्मिन्स्वरे दत्ते, उपरिवर्तिनः स्वराः सन्ति चेत्पुर:प्रदेशे त एव देयाः । शेषा अवशिष्टाः स्वरा मूलकमक्रमेण पृष्ठे पूर्वप्रदेशे देयाः । अवशिष्टेषु स्वरेषु मूलकमेण य: पूर्वः स पूर्व देयः । यस्तु ततो ऽनन्तरः स तदनन्तरं देयः । ईदृशो ऽयं प्रस्तारो बोद्धव्यः । तत्र दृष्टान्तार्थ चतुःस्वरः प्रस्तारः प्रदर्श्यते-सरिगमेति पूर्व क्रमः संस्थाप्यः । षड्जस्याधस्तात्पूर्वस्वराभावात्स्वरो न स्थाप्यते । ऋषभस्य त्वधस्तात्तत्पूर्वः षड्जो देयः । उपरिगौ गांधारमध्यमौ पुरो देयौ । अवशिष्ट ऋषभः पश्चाद्देयः । एवं रिसगमेति द्वितीयो भेदः । तत ऋषभस्याधस्तात्षड्जो देयत्वेनासीत् | स चोपर्यग्रे वर्तते । तेनर्षभान्न प्रस्तारः । षड्जस्य पूर्वस्वराभावात्ततो ऽपि न प्रस्तारः । तेन गांधारस्याधस्तादृषभो देयः । पुरस्तूपरिवर्ती मध्यमो देयः । पूर्वशून्यक्रमे मूलक्रमात्षड्जगांधारौ देयौ । ततः सगरिमेति तृतीयो भेदः । ततो ऽनन्तरं गांधारस्याधस्तात्पूर्वमृषभो देयो भवति । परंतु स पुरस्ताद्विद्यते । तस्य पूर्वः षड्जो देयः । पुरो रिमौ पश्चाद्गः । एवं गसरिमेति चतुर्थो भेदः । तत ऋषभस्याधस्तात्षड्जो देयः । पुरो मः । पश्चाद्रिगौ । एवं रिगसमेति पञ्चमो भेदः । ततो ऽनन्तरं गांधारस्याधस्तादृषभ: । पुरः समौ । पश्चाद्गः । एवं गरिसमेति षष्ठो भेदः । ततो मध्यमस्याधस्ताद्गांधारः । पश्चात्सरिमाः। एवं सरिमगेति सप्तमो भेदः । तत ऋषभस्याधस्तात्षड्ज: । पुरो मगौ । पश्चाद्रिः । एवं रिसमगेल्यष्टमो भेदः । ततो मध्यमस्याधस्तादृषभः । पुरो गः। पश्चात्समौ । एवं समरिगेति नवमो भेदः । ततो मध्यमस्याधस्तात्षड्जः । पुरो रिगी। पश्चान्मः । एवं मसरिगेति दशमो भेदः। तत ऋषभस्याधस्तात्षड्जः । पुरो गः। पश्चाद्रिमौ । एवं रिमसगेत्येकादशो भेदः । ततो मध्यमस्याधस्तादृषभः । पुरः सगौ । पश्चान्मः । एवं मरिसगेति द्वादशो भेदः । ततो गांधारस्याधस्तादृषभः । पश्चात्सगमाः । एवं सगमरीति त्रयोदशो भेदः । ततो गांधारस्याधस्तात्षड्जः । पुरो मरी। पश्चाद्गः । एवं गसमरीति चतुर्दशो भेदः । ततो मध्यमस्याधस्ताद्गांधारः । पुरो रि: । पश्चात्समौ । एवं समगरीति पञ्च
Scanned by Gitarth Ganga Research Institute