________________
क्रमतानाः ४] प्रथमः स्वरगताध्यायः
१३१ तत्पूर्व इत्यस्य लक्षणांशस्य नायं विषयः । पुरस्त्विति । लिखितस्वरापेक्षया तत्पङ्क्तौ क्रमेण लेखनोचिते देशे लिखितो यस्तस्य दक्षिणभाग इत्यर्थः । उपरिवर्तिनः पुरोदेशस्योर्ध्वपक्तिस्थिताः स्थाप्या इत्यूह्यम् । अनेनात्र षड्जानन्तरं गमौ स्थाप्यौ । पृष्ठे प्रथममधोलिखितस्वरस्य पश्चाद्देशे लिखितो यस्तस्य वामभाग इत्यर्थः । शेषाः क्रमापेक्षया लिखितेभ्यो ऽवशिष्टाः स्वराः, मूलकमक्रमात् , मूलक्रमः ; उत्तरमन्द्रायां क्रमेण षड्जादिसप्तस्वराद्याः क्रमाः सप्त, तत्र षड्जाद्यः क्रमो मूलक्रमः, तस्मिन्स्वराणां यः क्रमो व्यवहितत्वेनाव्यवहितत्वेन वा तस्मात् ; स्थाप्या इति शेषः । शेषा इति बहुवचनं संभवद्विषयम् । अनेनात्रावशिष्ट ऋषभः पृष्ठे लिख्यते । एवं च सति रिसगमेति प्रथमः कूटतानः प्रस्तारे निष्पद्यते । अथास्मिंस्ताने यद्यप्यषभात्षड्जः पूर्वस्तथा ऽपि स चेदुपरि, स पूर्व उपरि चेदुपरितन्यामेव पङ्क्तावुत्तरत्र वर्तते चेत् , तदा तत्पूर्व उपरि वर्तमानात्पूर्वः स्थाप्य इति । अत्रोपरि वर्तमानात्षड्जादस्मिन्क्रमे पूर्वाभावादेवर्षभषड्जयोरधः स्थाप्यौ न संभवतः । गांधारस्याधस्तान्मूलक्रमापेक्षयर्षभस्य पूर्वत्वात्तस्योपरि वर्तमानत्वाभावाचर्षभः स्थाप्यः । पुरस्तूपरिवर्तिन इत्यृषभानन्तरं मध्यमः स्थाप्यः । अत्रापि बहुवचनं संभवद्विषयम् । मूलक्रमक्रमादिति पृष्ठे षड्जगांधारौ स्थाप्यौ । तदा सगरिमेति द्वितीयः कूटतानः । एवं मूलक्रमावरोहावधि प्रस्तारे क्रियमाणे तत्तत्क्रमोक्तसंख्याकाः कूटताना उत्पद्यन्ते । ततः प्रस्तार एव न संभवति ॥ ६२, ६३. ॥
___ (सु०) सप्तस्वरक्रमरूपपरिज्ञानार्थ प्रस्तारं कथयति-क्रमं न्यस्येति । क्रमं प्रथमतो न्यस्य स्थापयित्वा । सरिगमपधनीति क्रमः । क्रमापेक्षया पूर्वः पूर्वः स्वरः परादधो ऽध: स्थापनीयः । पूर्वः पूर्व इति वीप्सया लभ्यमर्थ विशदयति-स चेदिति । स पूर्वः स्वर उपरिभागे वर्तते चेत्तदा तस्यापि पूर्वः स्वरो लेखनीयः । सो ऽपि चेदने वर्तते तदा तत्पूर्वः । सो ऽपि चेत्परवर्ती
Scanned by Gitarth Ganga Research Institute