________________
१३०
संगीतरत्नाकरः [ग्राममूर्च्छनाक्रमं न्यस्य स्वरः स्थाप्यः पूर्वः पूर्वः परादधः । स चेदुपरि तत्पूर्वः पुरस्तूपरिवर्तिनः ॥ ६२ ॥
मूलक्रमक्रमात्पृष्ठे शेषाः प्रस्तार ईदृशः । सति प्रतिमूर्च्छनं क्रमेणैकस्वरादिसंख्या स्यात् , एकस्वरादितानानां संख्या भवेत् ॥ -६०, ६१ ॥
(सु०) संख्यापरिज्ञानोपायं कथयति-अङ्कानिति । एकादिसप्तान्तानकानूर्ध्वमूर्ध्व लिखेत् । प्रथममेकाको लेखनीयः, तस्योर्ध्वप्रदेशे द्वयङ्कः, ततस्त्र्यङ्कः, ततश्चतुरङ्कः, तत: पञ्चाङ्कः, ततः षडङ्कः, तत: सप्ताङ्क इति । ततः परे परे तूलस्थे ऽङ्के पूर्वेणाध:स्थितेनाङ्केन हते गुणिते सति प्रतिमूर्छनमेकस्वरद्विस्वरादिसंख्या स्यात् । एकेन द्वयङ्के गुणिते द्वावेव, 'एकेन गुणितं तदेव भवति' इति न्यायात् । द्वाभ्यां त्र्यङ्के गुणिते षट् । षड्भिश्चतुरङ्के गुणिते चतुर्विंशतिः । चतुर्विशत्या पश्चाङ्के गुणिते विंशत्युत्तरं शतम् । विंशत्युत्तरेण शतेन षडङ्के गुणिते विंशत्युत्तरा सप्तशती । विंशत्युत्तरया सप्तशत्या सप्ताङ्के गुणिते पञ्च सहस्राणि चत्वारिंशदुत्तराणि भवन्ति । एषैर्वकस्वरादिसंख्या ॥-६०-६१ ॥
(क०) उक्तसंख्यानिदर्शनार्थमुद्देशकमेण प्रस्तारं लक्षयति—क्रम न्यस्येति । क्रमं षष्टयुत्तरपञ्चशतसंख्यया परिगणितेपु पूर्णापूर्णकमेप्वन्यतमं न्यस्य लिखित्वा पूर्वः पूर्वः स्वरः परादधः स्थाप्य इति । उत्तरमन्द्रायां तावत् सरिगमेति चतुःस्वरं क्रमं लिखित्वा तस्मिन्क्रमे पूर्वः षड्जः परादृषभादधः स्थाप्यः । अत्र पूर्वः पूर्व इति वीप्सा ऽऽ प्रस्तारपरिसमाप्तेः प्रतितानं सकृत्करणविषया ऽवगन्तव्या नैकतानविषया । एकतानविषयत्वे तु पुरस्तूपरिवर्तिन इत्यस्य क्वचिदपि न संभवः । तेन परिगणिततानभेदा अपि न संभवेयुः । तस्मादेकवारमेव पूर्वः स्वरः परादधः स्थाप्यः । स चेदुपरि
Scanned by Gitarth Ganga Research Institute