________________
१२९
क्रमतानाः ४] प्रथमः स्वरगताध्यायः
अङ्कानेकादिसप्तान्तानूर्ध्वमूर्ध्व लिखेत्क्रमात् ॥ ६० ।। हते पूर्वेण पूर्वेण तेषु चाङ्के परे परे । एकस्वरादिसंख्या स्यात्क्रमेण प्रतिमूर्च्छनम् ।। ६१ ॥
एवमेकसप्तत्यधिकानि पञ्च शतानि क्रमा भवन्ति । पुनरुक्ताश्चैकाशीत्यधिकं सहस्रचतुष्टयम् । एतेषामैक्ये चत्वारि सहस्राणि षट् शतानि द्वापञ्चाशत् (४६५२)। क्रमपुनरुक्तसहितकूटतानसंख्या तु लक्षत्रयं द्वाविंशतिः सहस्राणि पञ्च शतानि द्वयशीतिश्च (३२२५८२)। क्रमपुनरुक्तापनयने तु लक्षत्रयं सप्तदश सहस्राणि नव शतानि त्रिंशच (३१७९३०) पूर्णापूर्णाः कूटतानाः संपन्नाः । ननु यथा पञ्चमो ग्रामद्वये भेदकश्चतुःश्रुतिकत्वात्निश्रुतिकत्वाच्च, तथा त्रिश्रुतिकत्वाच्चतु:श्रुतिकत्वाच्च धैवतः कथं भेदको न भवति? ब्रूमः—यद्यपि धैवतः षड्जग्रामे त्रिश्रुतिमध्यमग्रामे च चतुःश्रुतिः, तथा ऽपि स्वस्थानं न परित्यजति, केवलं तु मध्यमग्रामे पञ्चमान्त्यश्रुतिग्रहणमात्रम् । ततश्च यदा पञ्चमसहचरितो धैवत उच्चार्यते तदैव तस्य विकृतत्वप्रतीतिर्नान्यदेति न किंचिदेतत् । कूटतानानां बहुत्वात्स्वरूपपरिज्ञानं दुःसंपादमिति लाघवेन परिज्ञानोपायं वक्तुं प्रतिजानीते-ज्ञानोपाय इति ॥ ५८-५९-॥
(क०) परिगणितपूर्णापूर्णतानसंख्यापरिज्ञानोपायमाह - अङ्कानेकादिसप्तान्तानिति । तेषु सप्तस्वक्केषु परे परे द्वयकादौ पूर्वेण पूर्वेणैकाङ्कादिना हते गुणिते सति । अयमर्थः-प्रथमं पूर्वेणैकाङ्कन परे द्वयके गुणिते द्विसंख्या जायते । ततो जातं द्विसंख्याऽकं पूर्व कृत्वा तेन परे व्यङ्के गुणिते षटसंख्या जायते । पटसंख्यया परे चतुरङ्के गुणिते चतुर्विशतिसंख्या जायते । तया परे पञ्चाङ्के गुणिते विंशत्युत्तरशतसंख्या जायते । तया परे षडङ्के गुणिते सविंशतिः सप्तशती जायते । तया परे सप्ताङ्के गुणिते चत्वारिंशदुत्तरपञ्चसहस्रसंख्या जायते । एवमुक्तरीत्या गुणितव्यम् । एवं कृते
17
Scanned by Gitarth Ganga Research Institute