________________
१२८
संगीतरत्नाकरः [ग्राममूर्च्छना' सहस्रैः सप्तदशभिर्युतं लक्षत्रयं तथा ।
शतानि नव षष्टिश्च सैका कूटाः समासते ॥' इति. ते प्रष्टव्या:--अथैकत्रिंशत्तानानां सकृत्त्यागः पुनरुक्तत्वेन वा क्रमत्वेन वा? यदि पुनरुक्तत्वेनैव त्यज्येरंस्तदा तेषां क्रमत्वेन त्याज्येप्वपरिगणनात्केवलकूटतानपरिगणनावसरे क्रमाणामपि ग्रहणात् 'कूटाः समासते' इति वदतां व्याहतिः स्यात् । किं च तेषां पुनरुक्ताकारवत्तया च पुनरुक्तपरित्यागो ऽपि साकल्येन न कृतः स्यात् । अथ क्रमत्वेनैव परित्यागस्तदा पुनरुक्तत्वेन त्याज्येप्वपरिगणनादपुनरुक्तकूटतानेयत्ताऽभिधानावसरे पुनरुक्तानामपि तेषां ग्रहणात् 'त्रिषष्टिः परिकीर्तिता' इत्यादिना शुद्धमध्याऽऽदिषु क्रमैः सह पुनरुक्तान्परिगणयतां व्याहतिः स्यात् । तेषां क्रमाकारवत्तया च क्रमत्यागो ऽपि साकल्येन न कृतः स्यादिति तत्रभवतां मीमांसामांसलितधियाम् 'पष्टिश्च सैका कूटाः' इति महदिदं ग्रन्थनिर्माणकौशलम् !
संगीतरत्नाकरभावबोद्धा श्रीकल्लिनाथः सुधियां मतेन । अपौनरुक्त्यात्क्रमकूटतानसंख्याविरोधं त्विह पर्यहार्षीत् ॥
५८-५९- ।।
(मु०) एवं शुद्धमध्यामार्गीपौरवीणां पुनरुक्तान्कूटतानान्मिलितान्परिगणयति--- इत्येकाशीतीति । एवं पुनरुक्तानां तानानां सहस्रचतुष्टयमेकाशीत्यधिकं भवति । पुनरुक्तकूटतानापनयने पूर्णापूर्णक्रमापनयने च निष्कृष्टां कूटतानसंख्यां कथयति-लक्षत्रयमिति । पूर्णाः क्रमा द्वानवत्यधिकं शतत्रयम् । षाडवा अष्टाचत्वारिंशत् । औडुवाश्चत्वारिंशत् । चतु:स्वरा द्वात्रिंशत् । त्रिस्वराः षड्विशतिः । द्विस्वरा द्वाविंशतिः । एकस्वरा एकादश । यद्यप्येकस्वराश्चतुर्दश, तथा ऽपि षड्जनिषादधैवतानां पुनरुक्तमध्ये ऽपनीतत्वादवशिष्टा एकादशैव गण्यन्ते ।
Scanned by Gitarth Ganga Research Institute