________________
क्रमताना
१२७
प्रथमः स्वरगताध्यायः अपनीयेत चेदेषा कूटतानमितिर्भवेत् । लक्षत्रयं सप्तदश सहस्राणि शतानि च ॥ ५९ ।। नवत्रिंशद्युतानीति ज्ञानोपायो ऽत्र कथ्यते ।
अपूर्णा द्वयशीत्युत्तरशतसंख्याकाः । उभये चतुःसप्तत्यधिकपञ्चशतसंख्याकाः। नन्वतैः क्रमैः सहिते पुनरुक्ततानानामेकाशीतियुक्तसहस्रचतुष्टये द्वयशीत्युत्तरपञ्चशताधिकद्वाविंशतिसहस्रसहितलक्षत्रयमितात्तानराशेरपनीते सत्यवशिष्टकूटतानसंख्या लक्षत्रयं सप्तदश सहस्राणि नव शतानि सप्तविंशतिश्चेति दृश्यते । अत्र त्रिंशद्युतानीति कथमुपपद्यत इति चेत् , ब्रूमः---अत्रैकस्वरतानानां चतुर्दशानां मध्ये शुद्धमध्यामार्गीपौरवीगतेषु त्रिप्वेकस्वरतानेषु पुनरुक्तत्वेनापनीतेप्वेकादशैवेतरेष्वेषां क्रमत्वाभावे ऽपि कूटतानत्वाभावादपनेयत्वेन क्रमराशौ निवेशिताः, त्रयस्तु न निवेशिता इति तैः सह त्रिंशद्युतानीत्युपपद्यत इति । एवं तर्हि शुद्धमध्याऽऽदिष्वेव द्विस्वरादिप्वेकत्रिंशत्क्रमेयु पुनरुक्ततानत्वेनापनीतेषु तेषामपि क्रमराशावननुप्रवेशादेकषष्टियुक्तानीति पठितव्यं स्यादिति चेत् , सत्यम् । अत्रोच्यते--पुनरुक्ततानत्वाकारेणापनीतानामपि तेषां क्रमत्वसंभवात्क्रमराशावनुप्रविष्टानां क्रमत्वप्रयुक्त्या ऽपि पुनरपनेयत्वमाकारद्वयवशाद् बृहस्पतिसवानुष्ठानवदुपपद्यते । यथैकस्यापि बृहस्पतिसवस्याश्वमेधाङ्गत्वेन प्राधान्येन चानुष्ठेयत्वम् , लोके च यथैकस्यापि देवदत्तस्य पाठकत्वपाचकत्वोपाधिवशाद्भेदेन परिगणनात्कार्यान्तरान्वयः, तद्वत्त्रयाणामेकस्वराणामनुक्रमत्वाभावेनाकारद्वयासंभवान्न पुनरपनेयत्वम् , द्विस्वरादीनामेकत्रिंशत्तानानामाकारद्वयसंभवात्पुनरपनेयत्वमेव ; अन्यथा तु दोषः स्यादिति मत्वा त्रिंशद्युतानीति सुष्टुक्तं निःशङ्कशाङ्गदेवेन । ये तु मन्यन्ते
'त्यक्तानां न सकृत्त्यागः कथमप्युपपद्यते ' इति निर्णीय,
Scanned by Gitarth Ganga Research Institute