________________
१२२
संगीतरत्नाकरः [ग्राममूच्र्छनाइति पाडवसंख्या स्यादथ पञ्चस्वरान्ब्रुवे । गाद्यौ धाद्यौ निषादाद्यौ चतुर्भेदाः पडौडवाः॥ ४३ ॥ अष्टावन्ये द्विधेत्येवं चत्वारिंशदिमे क्रमाः । सविंशतौ शते तैश्च गुणिते ऽष्टौ शतानि तु ॥ ४४ ॥ चत्वारि च सहस्राणि संख्या पञ्चस्वरेष्विति । चतुःस्वरेषु न्यायौ द्वौ चतुर्था द्वादशापरे ॥ ४५ ॥ क्रमा द्विधेति द्वात्रिंशचतुर्विंशतिताडिता । शतानि सप्ताष्टपष्टया स्याच्चतुःस्वरसंमितिः ॥ ४६ ।। त्रिस्वरेषु तु माद्यो द्वावभेदौ द्वादशापरे। द्विधा पड्विंशतिरिति क्रमास्ते पद्भिराहता ॥ ४७ ॥ पट्पश्चाशच्छतं च स्युर्दिस्वरेपु पुनर्द्विधा। रिगधन्यादयो ऽष्टौ स्युः शुद्धास्तदितरे क्रमाः ॥ ४८ ॥
द्वाविंशतिस्ते तु चतुश्चत्वारिंशद् द्विताडिता । निगयोरेकैकहीनत्वादित्यर्थः । अन्ये दश चतुर्धेति । निगयुक्तत्वादित्यर्थः । गाद्यौ धाद्यावित्यादिप्वप्येवं द्रष्टव्यम् ॥ ४१-४८- ॥
(सु०) चतुर्दशसु के चतुर्धा के च द्वेधेत्यपेक्षायामाह--षड्जाद्याविति । ग्रामद्वयमूर्च्छनासु षड्जाद्यौ द्वौ भेदौ निषादहीनत्वाद् द्विप्रकारौ शुद्धौ सान्तराविति । मध्यमाद्यौ च द्वौ भेदौ गांधारहीनत्वाद् द्विप्रकारौ शुद्धौ काकलीकलिताविति । अन्ये तु दश भेदाश्चतुर्धा शुद्धाः सान्तराः काकलीकलितास्तद्वयोपेता इति । एवमष्टाचत्वारिंशत् (४८) षाडवाः क्रमा भवन्ति । प्रतिक्रमं च विंशत्युत्तराणि सप्त शतानि (७२०)। तान्यष्टाचत्वारिंशता गुणितानि चतुस्त्रिंशत्सहस्राणि षष्टयधिकानि पञ्च शतानि च (३४५६०) क्रमैः सह षाडवकूटतानभेदा भवन्ति । पञ्चस्वरान्क्रमान्परिगणयति-गाद्या विति । ग्रामद्वये गांधाराद्यौ द्वौ भेदौ, धैवतायो द्वौ, निषादाद्यौ द्वौ । एवं षडौडुवाः पञ्चस्वरा भेदा निषादगां
Scanned by Gitarth Ganga Research Institute