________________
क्रमतानाः प्रथमः स्वरगताध्यायः
१२१ पड्जाद्यो मध्यमाद्यौ च चत्वारः स्युविधा द्विधा । चतुर्धा ऽन्ये दशेत्यष्टाचत्वारिंशदमी क्रमाः ॥ ४१ ॥ सविंशतिः सप्तशती प्रागुक्ता गुणिता क्रमैः।
चतुस्त्रिंशत्सहस्राणि पष्टया पञ्च शतानि च ॥ ४२ ॥ षड् (६) भेदाः । द्विस्वराणां प्रस्तारे द्वौ (२) भेदो । एकस्वरप्रस्तार एकः (१) ॥ ३७, ३८ ॥ एकस्वरादितानानां नामविशेषं कथयति-आर्चिक इति । एकस्वर आर्चिक इत्युच्यते । द्विस्वरो गाथिकः । त्रिस्वरः सामिकः । चतुःस्वरः स्वरान्तरः । पञ्चस्वरस्यौडुवत्वं षट्स्वरस्य षाडवत्वं च वक्ष्यति । सप्तस्वरः संपूर्णः, सप्तभ्यो ऽधिकस्वराभावात् । तथा चाह नारद:
'आर्चिको गाथिकश्चैव सामिकश्च स्वगन्तरः ।
औडुवः षाडवश्चैव संपूर्णश्चैव सप्तमः ॥ एकस्वरप्रयोगो हि आर्चिकस्त्वभिधीयते । गाथिको द्विस्वरो ज्ञेयस्त्रिस्वरश्चैव सामिकः ॥ चतुःस्वरप्रयोगो हि स्वरान्तरक उच्यते । औडुवः पञ्चभिश्चैव षाडवः षट्स्वरो भवेत् ॥
संपूर्णः सप्तभिश्चैव विज्ञेयो गीतयोक्तृभिः ।' इति ॥ ३९ ॥ एवं षाडवादीनां प्रतिक्रम संख्यामुक्त्वा षाडवक्रमसंख्याऽर्थमाहउक्ताः शुद्धादिभेदेनेति । ग्रामद्वये चतुर्दश मूच्र्छना अन्त्यकैकस्वरापकर्षेण यदा षाडवाः क्रियन्ते तदा निषादगांधारयुक्ता भेदाश्चतुर्विधा भवन्ति शुद्धाः काकलीकलिता: सान्तरास्तद्वयोपेता इति । तयोनिषादगांधारयोरेकैकहीनास्तु द्वेधा निषादहीनौ शुद्धौ सान्तरौ, गांधारहीनौ शुद्धौ काकलीकलितौ ॥ ४० ॥
(क०) षड्जाद्यौ मध्यमाद्यौ चेति । षड्जग्राम औत्तरमन्द्रः क्रमः षड्जाद्यः, मध्यमग्रामे शौद्धमध्यमः षड्जाद्यः, एतौ षड्जाद्यौ । मध्यमग्रामे सौवीरः क्रमो मध्यमाद्यः, षड्जग्रामे मात्सरीकृतः क्रमो मध्यमाद्यः, एतौ मध्यमाद्यौ । मिलित्वा चत्वारो द्विधा द्विधा स्युः प्रत्येकं द्विधा भवन्ति ;
Scanned by Gitarth Ganga Research Institute