SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १२० संगीतरत्नाकर: षाडवानां विंशत्या सह सप्त शतानि तु । औडवानां तु विंशत्या सहितं शतमिष्यते ॥ ३७ ॥ चतु:स्वराणां 'कूटानां चतुर्विंशतिरीरिताः । त्रिस्वराः षड् द्विस्वरौ द्वावेकस्त्वेकस्वरो मतः ॥ ३८ ॥ आर्चिको गाथिकाथ सामिको ऽथ स्वरान्तरः । एकस्वरादितानानां चतुर्णामभिधा इमाः ॥ ३९ ॥ 'उक्ताः शुद्धादिभेदेन निगयुक्ताश्चतुर्विधाः । तयोरेकैकहीनास्तु द्वेधा मूलकमा मताः ॥ ४० ॥ [प्राममूर्च्छना ( क ० ) स्युः पाडवानामिति । अत्र पाडवत्वं षट्स्वरवत्त्वमात्रेण विवक्षितम्, न तु प्रयोगापादनसमर्थषट्स्वरवत्त्वम् । औडुवानामित्यत्राप्येवमेव द्रष्टव्यम् || आर्चिक इति । यज्ञप्रयोगेष्वृचामेकस्वराश्रयत्वात्, तत्संबन्धादाचिकः । तथा गाथासंबन्धाद्वाथिको द्विस्वरः । सामसंबन्धात्त्रिस्वरस्तानः सामिकः । साम्नां तु त्रिस्वरत्वं सप्तस्वरवत्त्वे ऽपि मन्द्रादिस्थानत्रय - विवक्षया । चतुःस्वरतानस्यैकस्वरादिसप्तविधतानमध्यवर्तित्वात्स्वरान्तर इति संज्ञा ॥ उक्ताः शुद्धादिभेदेनेति । अत्रादिशब्देन सकाकलिसान्तरतद्द्वयोपेता गृह्यन्ते ॥ ३७–४० ॥ ( सु० ) षाडवानां कूटतानानां क्रमः सह संख्यामाह - स्यु: पाडवानामिति । षाडवस्य क्रमस्य प्रस्तारे क्रियमाणे विंशत्युत्तराणि सप्त शतानि (७२०) भेदाः संजायन्ते । औडुवानां प्रस्तारे प्रतिमूर्च्छनं विंशत्युत्तरशतम् (१२० ) भेदा भवन्ति । चतु:स्वराणां प्रस्तारे चतुर्विंशतिर्भेदा भवन्ति । त्रिस्वराणां प्रस्तारे तानानां . ' उक्तशुद्धा दिभेदेन. Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy