________________
११९
क्रमतानाः ४] प्रथमः स्वरगताध्यायः
(सु०) कूटतानान्कथयति- असंपूर्णा इति । या मूछना असंपूर्णा याश्च संपूर्णास्तास्ता एव व्युत्क्रमेणोच्चारितस्वरा: सत्यः कूटताना भवन्ति । प्रतिमूच्छेनं पूर्णकूटतानसंख्यां प्रतिज्ञाय कथयति-तत्संख्यामिति ॥ ३२ ॥ एकैकस्यां मूर्छनायां पूर्णाः कूटतानाश्चत्वारिंशदुत्तराणि पञ्च सहस्राणि (५०४०) भवन्ति । ननु मतङ्गेन त्रयस्त्रिंशदधिकानि पञ्च सहस्राणि (५०३३) प्रतिमूच्छनं कूटतानसंख्योक्ता ; यदाह-"कूटतानानां सहस्राणि पञ्च त्रयस्त्रिंशदधिकानि निष्पद्यन्ते ;
दत्तिलेनाप्युक्तम्--
'पूर्णाः पञ्च सहस्राणि त्रयस्त्रिंशच्च संख्यया ।
कथयन्ति प्रतिग्राममुपायो गणने ऽधुना ||' इति" इति । तन्निरासार्थमाह--सह क्रमैरिति । प्रतिमूछेनं प्रस्तारे क्रियमाणे सप्त क्रमाः संजायन्ते ; तैः सह चत्वारिंशदुत्तराणि पञ्च सहस्राणि भवन्तीति तात्पर्यम् । दत्तिलादिभिस्तु क्रमान्विहाय कूटतानसंख्यैव निर्दिष्टेत्यविरोधः ॥३३॥ प्रतिमूच्छेनं कूटतानसंख्यामुक्त्वा सर्वासां मूर्च्छनानां कूटतानसंख्यां कथयतिषट्पञ्चाशदिति । चत्वारिंशदधिकानि पञ्च सहस्राणि षट्पञ्चाशता गुणनीयानि । एतावता लक्षद्वयं व्यशीतिः सहस्राणि शतद्वयं चत्वारिंशदधिकमितीयं संख्या (२८२२४०) निष्पद्यते । अपूर्णान्कूटतानान्प्रतिज्ञाय कथयति-अथापूर्णानिति । क्रमाणां कूटतानानां च षट्स्वरादयः षड् भेदा भवन्ति । कथं भवन्तीत्यपेक्षायामाह--एकैकान्त्यान्त्यविरहादिति । पूर्णा या मूच्छंना ग्रामद्वये तासामेकैकान्त्यस्वरापकर्षण ; अन्त्यकस्वरापकर्षेण षट्स्वरा भेदा भवन्ति, अन्त्यस्वरद्वयापकर्षण पञ्चस्वराः, अन्त्यस्वरत्रयविरहेण चतुःस्वराः, अन्त्यस्वरचतुष्टयहान्या त्रिस्वराः, अन्त्यस्वरपञ्चकहान्या द्विस्वराः, अन्यस्वरषट्कहानेनैकस्वरा इति ॥३४, ३५॥ नन्वेकस्वराणां प्रस्ताराभावाद्भेदा न सन्ति; ते किमर्थमत्रोच्यन्ते? अत आहएकस्वर इति । एकस्वरभेदा नष्टोद्दिष्टसिद्धय उक्ताः । एकस्वरपरित्यागेन द्विस्वरादीनामपि निवेशने खण्डमेरौ नष्टोद्दिष्टपरिज्ञानस्याशक्यत्वादेकस्वरा अप्युक्ता इत्यर्थः । ननु तर्हि क्रमाः कूटतानत्वाभावात्किमर्थमत्रोच्यन्ते? अत आह-क्रमा इति । क्रमा यद्यपि कूटताना न भवन्ति, तथा ऽपि क्रमं न्यस्य स्वरः स्थाप्यः। इति वक्ष्यमाणे प्रस्तारे ते कूटतानेषूपयोगिनो भवन्ति, क्रमैर्विना कूटतानानामशक्यज्ञानत्वात् ॥ ३२-३६ ॥
Scanned by Gitarth Ganga Research Institute