SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ११८ संगीतरत्नाकर: षट्पञ्चाशन्मूर्च्छनास्थाः पूर्णाः कूटास्तु योजिताः । लक्षद्वयं सहस्राणि द्वयशीतिर्दे शते तथा ॥ ३४ ॥ चत्वारिंशच्च संख्याता अथापूर्णान्प्रचक्ष्महे । एकैकान्त्यान्त्य विरहाद्भेदाः षट् षट्स्वरादयः ।। ३५ ।। एकस्वरो sa निर्भेदोsयुक्तो नष्टादिसिद्धये । क्रमा अकूटतानत्वे ऽप्युक्तास्तेषूपयोगिनः || ३६ || [प्राममूर्च्छना रितस्वरा इत्यत्र स्वराणामानुपूर्व्या ssरोह एव क्रमः । तेष्वेकादिस्वरव्यत्यासो व्युत्क्रमः । अवरोहे सत्यामपि विपरीतानुपूर्व्या क्रमत्वाभावेन कूटतानत्वमेव । कूटत्वं नाम व्युत्क्रमोच्चारितस्वरत्वम् || अथ षट्पञ्चाशति मूर्च्छनास्वेकैकस्याः संपूर्णादिसप्तभेदेषु प्रतिभेदं वक्ष्यमाणप्रस्तारवशादियत्तया कूटतानसंख्यां दर्शयितुं प्रतिज्ञापूर्वक माह पूर्णाः पञ्च सहस्राणीत्या - दिना || एकैकान्त्यान्त्यविरहादिति । एकैकस्यां मूर्च्छनायामन्त्यान्त्यविरहादन्त्यान्त्यस्वरपरित्यागात् । अन्त्यान्त्येति वीप्सयोत्तरमन्द्रायां संपूर्णक्रमे ऽन्त्यो निषादः, तस्य परित्यागात्पट्स्वरः क्रमो भवति । तस्मिन्क्रमे ऽन्त्यो धैवतः, तत्परित्यागात्पञ्चस्वरः क्रमो भवति । एवमसंपूर्णाः षड् भेदा द्रष्टव्याः । तद्यथा सरिगमपधेति पट्स्वरो भेद: ; सरिगमपेति पञ्चस्वर : ; सरिगमेति चतु:स्वरः ; सरिगेति त्रिस्वरः; सरीति द्विस्वर : ; सेत्येकस्वरः । एवमन्यास्वपि मूर्च्छनासु प्रत्येकं पड् भेदा द्रष्टव्याः । निर्भेदः प्रस्ताराभावादवान्तरभेदरहितः । नष्टादिसिद्धय इति । आदिशब्देनोद्दिष्टस्य संख्यायाश्च ग्रहणम् ; तेषु ' मौलैकाङ्कसमन्वितैः' इत्येकस्वरतानस्योपयोगात्तत्सिद्धिरिति, तस्यै । तेषूपयोगिन इति । तेषु कूटतानेपु मूलकारणत्वेनोपयोगिनो यतो ऽत उक्ता: । व्युत्क्रमस्य क्रमापेक्षित्वादिति भावः ।। ३२-३६ ॥ —- Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy