________________
क्रमताना: ४]
प्रथमः स्वरगताध्यायः
असंपूर्णाश्च संपूर्णा व्युत्क्रमोच्चारितस्वराः ।
मूर्च्छनाः कूटतानाः स्युस्तत्संख्यामभिदध्महे ।। ३२ । पूर्णाः पञ्च सहस्राणि चत्वारिंशद्युतानि तु । एकैकस्यां मूर्च्छनायां कूटतानाः सह क्रमैः ॥ ३३ ॥
११७
औडुवास्तानाश्चतुर्दश । ग्रामद्वये मिलिता औडुवा: पञ्चत्रिंशत् । सर्वे ऽपि पाडचौडवाश्चतुरशीतिः । तानानां प्रयोगस्तु द्विधा कथितो मतङ्गेन । यदाहकथमेषां तानानां प्रयोग: कार्य इति चेत्, उच्यते । द्विविधस्तानप्रयोगः प्रवेशेन निग्रहेण च । प्रवेशो ह्यृषभापेक्षया षड्जस्याधरीभूतस्य लोपनीयस्य विप्रकर्षः पीडनम्, ऋषभापादनमिति यावत् । इति विप्रकर्षेण प्रवेश: । मार्दवेनायं यथा — तस्यैव षड्जस्य निषादापेक्षयोत्तरीभूतस्य मार्दवं शिथिलीकरणम्, निषादापादनमिति यावत् । इति द्विविध: प्रवेशः । निग्रहस्तूत्तरस्वरपरित्यागो ऽसंस्पर्शः । प्रयोगस्तु यथा-सासागरिपापामारी । तथा चाह भरतः - 'द्विधा तानक्रिया तन्त्र्यां प्रवेशो निग्रहश्च । अत्र प्रवेशो नामाधरस्वरप्रकर्षणादुत्तरस्वरमार्दवाच्च । निग्रहश्वासंस्पर्श:' इति । दत्तिलो ऽप्याह
'द्विधा तानक्रिया तन्त्र्यां प्रवेशान्निप्रहात्तथा । प्रवेशो ध्वनिसादृश्यमसंस्पर्शस्तु निग्रहः ॥ '
इति । ननु प्रथमायां सप्तम्यां च मूर्च्छनायां षड्जे लुप्ते रिगमपधनीत्येकमेव रूपं भवतीति तत्र को विशेष: ? सत्यं भेदो नास्ति परं तु मन्द्रतारकृतो भेदो विद्यत एव । ननु मूर्च्छनास्तावज्जातिरागभाषाऽऽदिषूपयोगिन्य इति युक्तं तासां कथनम् ; तानास्तु कुत्रोपयुज्यन्ते ? उच्यते । द्वयोर्ग्रामयोर्जातिरागान्यत्वप्रतिपादनार्थ प्रयोगस्तानानामित्युक्तं मतङ्गेन ॥ २९–३१ ॥
(क०) क्रमप्राप्तान्कूटतानाऍलक्षयति — असंपूर्णाश्चेति । मूर्च्छनाश्चतुर्विधा अपि मूर्च्छनाः संपूर्णा असंपूर्णाश्च व्युत्क्रमेणोच्चारितस्वराश्चेत्कूटतानाः स्युरित्यन्वयः । संपूर्णाः सप्तस्वरयुक्ताः, असंपूर्णा एकैकान्त्यान्त्यस्वरत्यागे सति षटस्वराद्येकस्वरान्ताः, चकारो विकल्पार्थः । व्युत्क्रमोच्चा
Scanned by Gitarth Ganga Research Institute