SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः [ग्राममूर्च्छनाभयत्रान्वयः कर्तव्यः । इह मूर्च्छनानां शुद्धत्वं नाम काकल्यन्तररहितत्वम् ; तानानां तु शुद्धत्वं काकल्यन्तररहितत्वं व्युत्क्रमेणोच्चारितस्वररहितत्वं चावगन्तव्यम् । पाडवौडवितीकृता इति । सप्तसु नियतैकस्वरलोपात्पाडवाः । सप्तसु नियतस्वरद्वयलोपादौडुविताः । पूर्वमषाडवाः षाडवाः संपन्नाः षाडवीकृताः, पूर्वमनौडुविता औडविताः संपन्ना औडुवितीकृताः । पाडवीकृताश्चौडुवितीकृताश्चेति समासः । षाडवौडुवितीकृता इत्यनेनैकस्य द्वयोर्वा स्वरयोरविशेपेण लोपे प्राप्ते, भरतादिमतानुसारेण लोपं निगमयतिपड्जगा इत्यादिना । ननु शुद्धतानेषु केषुचिद्भेदकपञ्चमलोपाद् ग्रामविवेकः कथमिति चेत् ; उच्यते-ग्रामविशेषमधिकृत्यैव तत्तत्स्वरविहीनतानाभिधानास्क्वचिद्भेदकपञ्चमाभावे ऽपि तानविशेषस्यैव ग्रामभेदकत्वमिति ॥ २७-३१॥ (सु०) तानान्निरूपयति--ताना: स्युरिति । शुद्धा मूर्च्छनास्तानाः स्युः । किंविधा मूछनाः ? विवक्षितकस्वरापकर्षेण विवक्षितस्वरद्वयापकर्षेण च षट्स्वरा: पञ्चस्वराश्चेति कृताः । तमेव विवक्षितं स्वरापकर्ष कथयति-षड़जगा इति । षड्जप्रामस्था मूर्च्छना यदा षड्जेन हीनाः क्रियन्ते तदा सप्त ताना भवन्ति । यदर्षभेण हीनास्तदा सप्त । यदा पञ्चमेन हीनास्तदा सप्त । यदा सप्तमेन निषादेन हीनास्तदा सप्त । एवं षड्जग्रामे पाडवा अष्टाविंशतिस्ताना भवन्ति । मध्यमग्रामे सप्त मूछना यदा षड्जोज्झिता भवन्ति तदा सप्त तानाः । यदर्षभोज्झितास्तदा सप्त । यदा गांधारोज्झितास्तदा सप्त । एवं मध्यमग्राम एकविंशतिः षाडवास्ताना भवन्ति । ग्रामद्वये मिलिता: षाडवास्ताना एकोनपञ्चाशत् ॥ २७-२८- ॥ औडुवांस्तानान्निरूपयति--सपाभ्यामिति । षड्जमाममूर्च्छना: सपाभ्यां षड्जपञ्चमाभ्यां वर्जिता यदा भवन्ति तदा सप्तौडुवास्तानाः । यदा द्विश्रुतिभ्यां गांधारनिषादाभ्यां वर्जितास्तदा सप्त । यदा रिपाभ्यामृषभपञ्चमाभ्यां हीनास्तदा सप्त । एवं षड्जग्राम एकविंशतिस्ताना औडुवा: । मध्यमप्रामे यदा सप्त मूछना रिधाभ्यामृषभधैवताभ्यां हीना भवन्ति तदा सप्त ताना औडुवाः । यदा द्विश्रुतिभ्यां गांधारनिषादाभ्यां हीनास्तदा सप्त । एवं मध्यमग्राम Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy