SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ क्रमताना: ४] प्रथमः स्वग्गताध्यायः ११५ तानाः स्युर्मूर्च्छनाः शुद्धाः पाडवौडुवितीकृताः । पड्जगाः सप्त हीनाश्चेत्क्रमात्सरिपसप्तमैः ॥ २७ ॥ तदा ऽष्टाविंशतिस्ताना मध्यमे सरिगोज्झिताः । सप्त क्रमाद्यदा तानाः स्युस्तदा त्वेकविंशतिः ।। २८ ॥ एते चैकोनपञ्चाशदुभये पाडवा मताः । सपाभ्यां द्विश्रुतिभ्यां च रिपाभ्यां सप्त वर्जिताः ॥ २९ ॥ पड्जयामे पृथक्ताना एकविंशतिरौडुवाः । रिधाभ्यां द्विश्रुतिभ्यां च मध्यमग्रामगास्तु ते ॥ ३० ॥ हीनाश्चतुर्दशैव स्युः पञ्चत्रिंशत्तु ते युताः। सर्वे चतुरशीतिः स्युमिलिताः पाडवौडुवाः ॥ ३१ ॥ (क०) प्रसङ्गाक्रमानुक्त्वा मूर्च्छनैकदेशरूपत्वेन मूर्च्छनाऽनन्तरमुद्दिष्टाशुद्धतानालक्षयति-तानाः स्युरिति । तन्यते विस्तार्यत इति तनोतेर्धातोः ‘अकर्तरि च-.' इत्यादिना सूत्रेण कर्मणि घञि तान इति रूपं दायो लाभ इतिवत् । शुद्धा मूर्च्छनाः षाडवौडवितीकृताः सत्यः शुद्धास्तानाः स्युरिति शुद्धपदस्योभयत्र संबन्धः । यदि तानपदेनैव संबन्धस्तदा मूर्च्छना इत्यविशेषेण प्रकृतत्वात्पटपञ्चाशन्मछेनानामपि प्रसक्तौ तासां च प्रत्येकं वक्ष्यमाणप्रकारेण पाडवौडुवितत्वयोः कृतयोस्तदुत्थतानसंख्यायां पत्रिंशदुत्तरशतत्रयमितायां सत्याम् 'तानाश्चतुरशीतिः स्युः' इति भरतवचनविरोधः स्यात् । किं चोत्तरवाक्ययोः ‘षड्जगाः सप्त' 'मध्यमे सप्त' इति च संख्योपादानमनुपपन्नं स्यात् । अतः शुद्धा मूर्च्छना इत्यन्वयः कर्तव्यः । अथ यदि मूर्च्छनापदेनैव संबन्धः क्रियेत तदा कूटतानानामपि लक्ष्यत्वं प्रतीयेत, तानपदस्थाविशेषेणोपादानात् । तन्मा भूदित्यु Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy