SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ११४ संगीतरत्नाकरः [ग्राममूर्च्छनाचारयेत् । ननु तर्हि कमादारोहावरोहाभावान्मूछनात्वं व्याहन्येत ; अत आहक्रमादिति । यद्यप्यारोहावरोहयोः क्रमो नास्ति, तथा ऽपि स्वरक्रमस्य सद्भावान्मूर्च्छनात्वम् ॥ १९ ॥ ते मूर्च्छनाभेदाः क्रमशब्देनोच्यन्ते । तेषां संख्या द्वानवत्या ऽधिकं शतत्रयं ज्ञातव्यम् । मतङ्गदत्तिलौ तु मूछनानामन्यथा चातुर्विध्यमवादिष्टाम् । यदाह मतङ्गः-'तत्र सप्तस्वरा मूर्च्छना चतुर्विधा पूर्णा षाडवौडुविता साधारणी चेति । तत्र सप्तभिः स्वरैर्या गीयते सा पूर्णा । षभिः स्वरैर्या गीयते सा पाडवा । पञ्चभिः स्वरैर्या गीयते सोडुविता । काकल्यन्तरैः स्वरैर्या गीयते सा साधारणी।' इति । दत्तिलो ऽप्याह 'स्वरौ यावतिथौ स्यातां ग्रामयोः षड्जमध्यमौ । मूर्च्छना तावतिथ्येव तद्ग्रामद्वितये तथा ॥ सर्वास्ताः पञ्चषट्पूर्णसाधारणकृताः स्मृताः ।' इति । मूर्च्छनानां षाडवत्वं वक्ष्यमाणषाडवतानप्रकारेणोक्तम् । ओडुवत्वं वक्ष्यमाणौडवतानप्रकारेणोक्तम् । ताभ्यां पाडवौडुवत्वम् । मूछनातानयोश्च भेदः प्रतिपादितो मतङ्गेन । यदाह-'ननु मूर्च्छनातानयोः को भेद: ? उच्यते । मूछनातानयो र्थान्तरत्वमिति विशाखिलः । एतन्न संगतम् , संग्रहश्लोके मूछनातानयोर्भेदस्य प्रतिपादितत्वात् । ननु कथं मूच्छनातानयोर्भदः? ब्रूमःआरोहावरोहक्रमयुक्तः स्वरसमुदायो मूर्छनेत्युच्यते; तानस्त्वारोहणक्रमेण भवतीति भेदः' इति ॥ १९- ॥ मूर्च्छनानां देवताः कथयति-यक्षेति । यक्षाः, रक्षांसि, नारदः, अब्जभवो ब्रह्मा, नागा: सर्पाः, अश्विनौ दस्रो, पाशी वरुणः ॥ -२०, २०- || मध्यमग्राममूछनानां देवताः कथयति-ब्रह्मेति । देवताकथनं तु तया तया मुर्छनया गीतया सा सा देवता प्रीयत इत्येतमर्थ ज्ञापयितुम् | नारदमतेन मूछनानामन्यथा नामानि कथयति-तासामिति । ऋषीणां समाख्याता इति । ऋषिभिः समाख्याता इत्यर्थः । नारदमतेन गांधारग्राममूछनानामानि कथयति-नन्देति । ननु गांधारग्राममूछनानां लक्षणं किमिति नोक्तम् ? अत आह-ताश्चेति । विशेषयति व्यावर्तयति सजातीयविजातीयेभ्य इति विशेष) लक्षणम् | ल्यब्लोपे पञ्चमी । लक्षणं कृत्वा नोक्ता इत्यर्थः ॥ -२१-२६ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy