SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ क्रमतानाः ४] प्रथमः स्वरगताध्यायः ११३ ङीप् ॥ अथ मर्छनाप्रसङ्गेन केवलारोहवत्या तदेकदेशरूपान्क्रमान्प्रस्तारे कूटतानोपयोगार्थ प्रतिमूर्च्छनमियत्तया ऽवधार्य लक्षयति -प्रथमादीत्यादिना । प्रथमादिस्वरारम्भात् , यस्यां मूर्च्छनायां यः प्रथमः स्वर: स आदिर्येषां त इतरे षट् स्वराः, तद्गुणसंविज्ञानात्प्रथमश्चेति प्रथमादयः सप्त स्वराः, तेषामारम्भः क्रमादादिमत्वेनोच्चारणम् , तस्मात् । एकैकेति । शुद्धादिभेदेनोक्तासु पट्पञ्चाशन्मूर्च्छनासु प्रत्येकमित्यर्थः । तास्वन्त्यस्वरान्क्रमादुच्चार्य पूर्वान्स्वरान्क्रमादुच्चारयेदिति क्रमादित्यस्यावृत्त्या ऽन्वयः कर्तव्यः । पूर्वानारब्धस्वरादधस्तनान् । इह सप्तस्वरात्मकेषु क्रमेषु पूर्वानुच्चारयेदिति लक्षणांशः प्रतिमर्छनं प्रथमक्रमेप्वसंभाव्यो ऽपि द्वितीयादिक्रमे संभवत्स्वरविषयो द्रष्टव्यः । तद्यथा-उत्तरमन्द्रायां सरिगमपधनीति प्रथमः क्रमः । निसरिगमपधेति द्वितीयः । धनिसरिगमपेति तृतीयः । पधनिसरिगमेति चतुर्थः । मपधनिसरिगेति पञ्चमः । गमपधनिसरीति षष्ठः । रिंगमपधनिसेति सप्तमः । एवं क्रमेणोच्चारितत्वादेतेपां क्रमसंज्ञा ॥ यक्षरक्ष इत्यादिः स्पष्टार्थः ॥ १८-२६ ॥ __ (सु०) मूछनासंख्यापरिज्ञानार्थ सुगममुपायमाह-यस्यामिति । उभयो मियोमध्ये षड्जमध्यमौ स्वरौ यावतिथौ यावत्संख्यापूरणौ, तावतिथी तावत्संख्यापूरणी मूछना निःशङ्केन निःशङ्क इति बिरुदविराजितेन शाङ्गदेवेन कथिता । षड्जग्राममूर्च्छनासु यदि षड्जः प्रथमस्तर्हि प्रथमा मूर्च्छना, यदि षड्जो द्वितीयस्तर्हि द्वितीया, यदि तृतीयस्तृतीया, यदि चतुर्थश्चतुर्थी, यदि पञ्चमः पञ्चमी, यदि षष्ठः षष्ठी, यदि सप्तमः सप्तमीति । एवं मध्यमग्राममूच्छनासु यदि मध्यमः प्रथमस्तर्हि प्रथमा मूर्च्छना, यदि द्वितीयो द्वितीया, यदि तृतीयस्तृतीयेत्यादि ॥ १८ ॥ षट्पञ्चाशत्संख्यानां मूछनानां प्रत्येकं सप्तविधत्वं दर्शयति-प्रथमादीति । एकैका मूछना सप्तधा भवति, प्रथमद्वितीयतृतीय तुरीयपञ्चमषष्ठसप्तमस्वरारम्भात् । ननु द्वितीयादिस्वरारम्भे कथं सप्तस्वरत्वम् ? अत आह-तास्विति । तासु मूर्च्छनास्वन्त्यस्वरपर्यन्तमुच्चार्य पूर्वान्स्वरानु 15 Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy