________________
संगीतरत्नाकरः
[ग्राममूर्च्छनायस्यां यावतिथौ षड्जमध्यमौ ग्रामयोः क्रमात् । मूर्च्छना तावतिथ्येव सा निःशङ्केन कीर्तिता ।। १८ ।। प्रथमादिस्वरारम्भादेकैका सप्तधा भवेत् । तामूच्चार्यान्त्यस्वरांस्तान्पूर्वानुच्चारयेत्क्रमात् ॥ १९ ॥ ते क्रमास्तेषु संख्या स्याद् द्वानवत्या शतत्रयम् । यक्षरक्षोनारदाब्जभवनागाश्विपाशिनः ॥ २० ॥ पड्जग्रामे मूर्च्छनानामेताः स्युर्देवताः क्रमात् । ब्रह्मेन्द्रवायुगन्धर्वसिद्धद्रुहिणभानवः ॥ २१ ॥ स्युरिमा मध्यमग्राममूर्च्छनादेवताः क्रमात् । तासामन्यानि नामानि नारदो मुनिरब्रवीत् ॥ २२ ॥ मूर्छनोत्तरवर्णा ऽऽद्या पड्जग्रामे ऽभिरुद्गता । अश्वकान्ता च सौवीरी हृष्यका चोत्तरायता ॥ २३ ॥ रजनीति समाख्याता ऋपीणां सप्त मूर्छनाः ।। आप्यायनी विश्वकृता चन्द्रा हेमा कपर्दिनी ॥ २४ ॥ मैत्री चान्द्रपसी पित्र्या मध्यमे मूर्च्छना इमाः । नन्दा विशाला सुमुखी चित्रा चित्रवती सुखा ।। २५ ॥ आलापा चेति गांधारग्रामे स्युः सप्त मूर्च्छनाः । ताश्च स्वर्गे प्रयोक्तव्या विशेषात्तेन नोदिताः ।। २६ ॥
(क०) मर्छनासु प्रथमादिसंख्यापरिज्ञानोपायमाह-यस्यामिति । यावतिथाविति । यावच्छब्दात्पूरणे ऽर्थे डटि ‘वतोरिथुक् ' इति वत्वन्तस्येथुगागमे कृते यावतिथ इति रूपम् । ग्रामयोर्यस्यां मूर्च्छनायां षड्जमध्यमौ यावतिथौ सा मूर्च्छना तावतिथी। अत्र · टिड्ढाणञ्- ' इत्यादिना
Scanned by Gitarth Ganga Research Institute