SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १११ क्रमताना: ४] प्रथमः स्वरगताध्यायः श्रुतिद्वयं चेत्पड्जस्य निपादः संश्रयेत्तदा । स काकली मध्यमस्य गांधारस्त्वन्तरः स्वरः ॥ १७ ॥ (क०) मूर्च्छनाभेदकत्वेन प्रसक्तयोः काकल्यन्तरयोः स्वरूपमाहश्रुतिद्वयं चेदिति । मध्यमस्येति । अत्रापि श्रुतिद्वयं चेदित्याद्यनुषञ्जनीयम् । मर्छनाभेदोपयोगिकाकल्यन्तरप्रसङ्गान्मतङ्गप्रोक्तौ स्वराणां प्रवेशनिग्रहावुच्येते । तद्यथा--द्विविधस्तानप्रयोगः प्रवेशेन निग्रहेण च । प्रवेशो द्विविधः पूर्वस्वरविप्रकर्षणोत्तरस्वरमार्दवेन च । तत्रर्षभापेक्षया षड्जस्याधरीभूतस्य लोपनीयस्यापि विप्रकर्षः पीडनम् ; ऋषभापादनमिति यावत् । तस्यैव षड्जस्य निषादापेक्षयोत्तरीभूतस्य मार्दवं शिथिलीकरणम् ; निषादापादनमिति यावत् । निग्रहस्तृत्तरस्वरस्य परित्यागः ; असंस्पर्श इति यावत् । तथा चाह भरत: 'द्विधा तानक्रिया तन्त्र्यां प्रवेशान्निग्रहात्तथा । इति । तत्र प्रवेशो नामाधरस्वरविप्रकर्षादुत्तरस्वरमार्दवाद्वा। निग्रहश्चासंस्पर्शः' इति । दत्तिलेनाप्युक्तम् 'तानक्रिया द्विधा तन्त्र्यां प्रवेशान्निग्रहात्तथा । प्रवेशो ध्वनिसादृश्यमसंस्पर्शस्तु निग्रहः ॥' इति ॥ १७ ॥ (सु०) काकलीसहिताः सान्तरा इत्युक्तम् । तत्र को ऽयं काकल्यन्तरो वेत्यपेक्षायामाह-श्रुतिद्वयमिति । निषादः षड्जस्य श्रुतिद्वयं संश्रयेच्चेत , षड्जस्य द्वितीयश्रुतौ तिष्ठंश्चतुःश्रुतिर्भवति यदि, तदा काकलीत्युच्यते । गांधारश्च मध्यमस्य श्रुतिद्वयं गृह्णश्चतुःश्रुतिः सन्नन्तर इत्युच्यते । निषादगांधारावेव काकल्यन्तरस्वरौ, न तयोः स्वरान्तरत्वमित्युक्तं प्राक् ॥ १७ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy