________________
११०
संगीतरत्नाकर:
[प्राममूर्च्छना
इत्याह । अवधानं नाम मनोबुद्धिस्मृतीन्द्रियाणामैकाप्रयम् । षड्जो यत्र स्थापितस्तदपेक्षयैवान्येषां स्वराणामुच्चारणमिति यावत् । यदि स्वराः स्वेच्छया नावस्थाप्यन्ते तदा ऽवधानं नोपयुज्येत । शार्ङ्गदेवेनापि चलवीणायां सारणानिरूपणेनायं पक्षः किंचित्स्वीकृत एव, 'स्वोपान्त्यतन्त्रीमानेयास्तस्यां सप्त स्वरा बुधैः' इत्युक्तत्वात् । लोके च वैणिकाः स्वेच्छया स्वरानवस्थापयन्तो दृश्यन्त इत्यास्तां विस्तरः । मतङ्गेन तु द्वादशस्वरमूर्च्छना उक्ता:
'इदानीं संप्रवक्ष्यामि द्वादशस्वरमूच्र्छना: '
इति । अत्र मूर्च्छना निर्देशः स्थानत्रितयप्राप्त्यर्थमिति वचनाद् द्वादशस्वरसंपन्ना मूर्च्छना द्रष्टव्याः । नन्दिकेश्वरेणाप्युक्तम्
'द्वादशस्वरसंपन्ना ज्ञातव्या मूर्च्छना बुधैः । 'जातिभाषाऽऽदिसिद्धयर्थं तारमन्द्रादिसिद्धये ॥ '
इति । ताश्चैवम् -- धनिसरिगमपधनिसरिंग — उत्तरमन्द्रा ॥ १ ॥ निसरिगमपधनिसरिगम - रजनी ॥ २ ॥ सरिगमपधनिसरिगमप - उत्तरायता ॥ ३ ॥ रिंगमपधनिसरिगमपध - शुद्धषड्जा ॥ ४ ॥ गमपधनिसरिगमपधनि — मत्सरीकृता ॥ ५ ॥ मपधनिसरिगमपधनिस - अश्वक्रान्ता ॥ ६ ॥ पधनिसरिगमपधनिसरि - अभिरुद्गता ॥ ७ ॥ इति षड्जग्रामे || मध्यमप्रामे ऽप्येवमेव । ' सरिगमपधनिसरिगमप – सौवीरी ॥ १ ॥ रिगमपधनिसरिगमपध - हारिणाश्वा ॥ २ ॥ गमपधनिसरिगमपधनि-कलोपनता ॥ ३ ॥ मपधनिसरिगमपधनिस - शुद्धमध्या ॥ ४ ॥ पधनिसरिगमपधनिसरि मार्गी ॥ ५ ॥ धनिसरिगमपधनिसरिंगपौरवी ॥ ६ ॥ निसरिगमपधनिसरिगम - हृन्यका ॥ ७ ॥ इति । चतुर्दशानामपि मूर्च्छनानां चातुर्विध्यं प्रतिपादयति- चतुर्धेति । ताश्चतुर्दश मूर्च्छनाः पृथक्प्रत्येकं चतुर्विधाः शुद्धाः काकलीसहिताः सान्तराः काकल्यन्तरोपेताश्चेत्येवं षट्पञ्चाशद्भवन्ति ॥ - १५, १६ ॥
1 परिभाषाऽऽदि०.
' निसरिगमपधनिसरिगम — सौवीरी • इत्यादि: कोशान्तरपाठः
०
Scanned by Gitarth Ganga Research Institute