________________
क्रमताना: ४ ]
१०९
षड्जं स्थापयेत्तदपेक्षया च श्रुतिनियमेनान्यान्वरान्स्थापयेदित्युक्तवान् ।
यदाह
प्रथमः स्वग्गताध्यायः
' षड्जत्वेन गृहीतो यः षड्जग्रामे ध्वनिर्भवेत् । तत ऊर्ध्वं तृतीयः स्यादृषभो नात्र संशयः ॥ ततो द्वितीयो गांधारचतुर्थो मध्यमस्ततः । मध्यमात्पञ्चमस्तद्वत्तृतीयो धैवतस्ततः ॥ निषादो तो द्वितीयः स्यात्ततः षड्जश्चतुर्थकः । '
इति । विवृतं चैतत्प्रयोगस्तबकाख्यायां दत्तिलटीकायाम् —' षड्जत्वेन षड्जस्वरभावेन गृहीतः परिकल्पितो बुद्ध्या व्यवस्थापितो यः कश्चिद् ध्वनिविशेषः षड्जाख्ये ग्रामे भवेत्तस्माद् ध्वनिविशेषादूर्ध्वं तृतीयः स्यादृषभ:' इति । नैवाभिप्रायेण दत्तिः षड्जग्राममूर्च्छनानां मध्यमग्राममूर्च्छनानां च किंचिद्विकारेणैक्यमुक्तवान् । यदाह -
'गांधारं धैवतीकुर्याद् द्विश्रुत्युत्कर्पणाद्यदि । तद्वशान्मध्यमादश्च निषादादीन्यथा स्थितान् ॥ ततोऽभूद्यावतियेषा षड्जग्रामस्य मूर्च्छना । जायते तावतिथ्येव मध्यमग्राममूर्च्छना ॥ श्रुतिद्वयापकर्षेण गांधारीकृत्य धैवतम् । पूर्ववन्मध्यमाद्यांश्च भावयेत्षड्जमूर्च्छनाः ॥
इति । स्वेच्छया षड्जावस्थापनमङ्गीकृत्यैव दत्तिलदक्षप्रजापत्यादयो ऽवधानं गांधर्वाङ्गत्वेनाकार्षुः । यदाह दत्तिल:---
'पदस्थः स्वरसंघातस्तालेन सुमितस्तथा । प्रयुक्तश्वावधानेन गांधर्वमभिधीयते ॥ '
इति । दक्षप्रजापतिरपि -
' अवधानानि गांधर्व पश्चात्स्वरपदादय: । अवधानातिरेकेण त्रिविधं नोपपद्यते ॥
Scanned by Gitarth Ganga Research Institute