SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १०८ संगीतरत्नाकरः [प्राममूर्च्छनाशुद्धाः षड्जग्रामे सर्वस्वरविकाररहिताः ; मध्यमग्रामे तु ग्रामस्वरूपभेदनिर्वर्तकं पञ्चमं तदुपलक्षकं धैवतं च विहायेतरस्वरविकाररहिताः । तत्र पञ्चमधैवतयोस्तादवस्थ्यमेव शुद्धत्वं विवक्षितमिति मन्तव्यम् । ननु विकृतस्वरेषु यद्यपि पञ्चमस्य ग्रामभेदकत्वेनैव चरितार्थत्वे ऽपि, ऋषभधैवतयोश्च षड्जपञ्चमविकारायत्तविकारयोः स्वतो भेदकत्वाभावे ऽपि, षड्जमध्यमसाधारणद्वयाश्रयणेनापि प्रकारान्तरेषु संभवत्सु केवलं काकल्यन्तराश्रयणेनैव चतुर्धेति निश्चयः कथमिति चेत् । सत्यम् ; षड्जमध्यमयोः साधारणीकृतयोः स्वरूपेण भेदकत्वे संभवत्यपि काकल्यन्तरयोः साधारणयोरन्तर्भूतत्वेन तयोः पृथग्भेदकत्वम् । तथा चाह मतङ्ग:--' साधारणस्वरौ निषादगांधारवन्तौ तदादिविकृतास्तत्रैवान्तर्भूताः' इति । किं च ग्रामद्वये मूर्च्छनासाधारणप्रकारभेदनिरूपणावसरे प्रतिनियतग्रामवर्तिनोः षड्जमध्यमसाधारणयोरनुपयोगाच्च । यथोक्तं भरतेन-'षड्जग्रामे षड्जसाधारणं मध्यमग्रामे मध्यमसाधारणम्' इति । अतश्चतुर्धेत्युपपद्यत इत्याचार्यरहस्यमसंप्रदायविदुषां दुर्ग्रहम् । श्रुतिस्वरप्रमाणज्ञः कल्लिनाथः कलानिधिः । चातुर्विध्यं मूर्च्छनानामत्रैवं निरदीधरत् ॥ -१५, १६ ॥ (सु०) ननु षड्जस्थाने मध्यमस्थाने च यदि निषादादयो गांधारादयश्च स्थापितास्तदा षड्जमध्यमयोः कुत्रावस्थानमत आह-षड्जादीनिति । षड्जर्षभगांधारादीन्मध्यमपञ्चमधैवतादींश्चोर्ध्वं सारयेदुत्कृष्टेषु स्वरेषु स्थापयेत् । यदा निषाद: षड्जस्थाने स्थापितस्तदा षड्ज ऋषभस्थान ऋषभो गांधारस्थान इत्यादि । यदा धैवतः षड्जस्थाने तदा निषाद ऋषभस्थाने षड्जो गांधारस्थान इत्यादि स्वयमूह्यम् । ननु कथमन्यस्य स्वरस्यान्यस्वरस्थाने ऽवस्थानम् ? ब्रूमः ; नायं मुख्यो व्यवहारः, किं त्वौपचारिको ऽयं व्यवहारः । अथ वा, दत्तिलादिभिरङ्गीकृतत्वादेवमुच्यते । दत्तिलो हि स्वेच्छया यस्यां कस्यामपि श्रुतौ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy