SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १०७ क्रमतानाः ४] प्रथमः स्वरगताध्यायः षड्जादीमध्यमादींश्च तदूर्ध्व सारयेत्क्रमात् ॥ १५ ॥ चतुर्धा ताः पृथक्शुद्धाः 'काकलीकलितास्तथा । सान्तरास्तद्वयोपेताः पट्पञ्चाशदितीरिताः ॥ १६ ॥ पंधंनिसरिंगमहज्यका ॥ ७ ॥ अस्याः शुद्धषड्जायाश्चापि पूर्ववत्पञ्चमेन भेदः । मतान्तरेणान्यथैतासां लक्षणमाह-षड्जस्थानेति । निषादाद्यैः स्वरैः षड्जस्थानस्थित रजन्याद्या भवन्ति । षड्जस्य स्थाने निषादे स्थाप्यमाने रजनी ॥२॥ धैवते स्थाप्यमान उत्तरायता ॥ ३ ॥ पञ्चमे स्थाप्यमाने शुद्धषड्जा ॥ ४ ॥ मध्यमे मत्सरीकृता ॥ ५ ।। गांधारे ऽश्वक्रान्ता ॥ ६ ॥ ऋषभे ऽभिरुद्गता ॥ ७॥ एवं मध्यमस्य स्थाने स्थाप्यमानैर्गाधाराद्यैर्हारिणाश्वाऽऽदयो भवन्ति । मध्यमस्य स्थाने गांधारे स्थाप्यमाने हारिणाश्वा ॥२॥ ऋषभे स्थाप्यमाने कलोपनता ॥३॥ षड्जे स्थाप्यमाने शुद्धमध्या ॥ ४ ॥ निषादे मार्गी ॥ ५॥ धैवते पौरवी ॥६॥ पञ्चमे हृष्यका ॥ ७ ॥ इति ॥ -१२-१४- ॥ (क०) ननु षड्जमध्यमस्थानयोरेव निषादगांधारादिप्रयोगे सति षड्जग्राम उत्तरमन्द्रारजन्यादीनां कर्थ परस्परं भेदो मध्यमग्रामे च सौवीरीहारिणाश्वाऽऽदिकानां च कथमन्योऽन्यं भेद इत्याशङ्कय परिहरिप्यन्नाह - षड्जादीन्मध्यमादींश्चेति । तदूर्ध्वमिति । रजन्यादिकायां षड्जस्थानस्थापितनिषादादेोरिणाश्वाऽऽदिकायां मध्यमस्थानस्थापितगांधारादेश्च परं षड्जादीमध्यमादींश्च स्वरान्सारयेत् ; स्वस्वश्रुतिसंख्यापर्यालोचनया श्रुत्यन्तराणि प्रापये दित्यर्थः । क्रमादिति । उत्तरायतायां षड्जस्थाने धैवते स्थापिते तदूर्ध्व निषादं कलोपनतायां मध्यमस्थान ऋषभे स्थापिते तदूर्ध्वं गांधारं चेत्यादिः क्रमः । तस्मान्मूर्च्छनानां शुद्धादिभेदेन प्रत्येकं चातुर्विध्यं दर्शयति-चतुर्धेति । ग्रामयोरुक्ताश्चतुर्दश मूर्च्छनास्ता इति परामृश्यन्ते । 'काकलीसहिता.. Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy