________________
संगीतरत्नाकर:
[प्राममूर्च्छना
स्थानस्थितषड्जस्थानगतैरिति प्रकरणादवगन्तव्यम् । सरिगमपधनीत्युत्तरमन्द्रास्वरस्थानेष्वेव निसरिगमपधेति रजनीस्वरानुच्चारयेदित्यर्थः || हारिणाश्वादिका इति । अत्रापि मध्यस्थानस्थितमध्मममारभ्य मपधनिस रिति सौवीरीस्वरस्थानेष्वेव गमपधनिसरीति हारिणाश्वास्वरानुच्चारयेदित्यर्थः । उभयत्राप्यादिशब्देन षड्जमध्यमस्थानयोरेव तत्तन्मूर्च्छनाऽऽदिमस्वरारम्भो
द्रष्टव्यः ॥ - १२–१४-॥
१०६
(सु० ) श्रोत्रवधानार्थं वैषम्यद्योतनाय चैतासां लक्षणं प्रतिज्ञाय कथयतिअथ तासामिति । मध्यस्थानस्थितेन षड्जेनाग्रिमा षड्जग्रामे प्रथमा मूर्च्छनोत्तरमन्द्रा ऽऽरभ्यते । षड्जमारभ्य सप्तमस्वरपर्यन्तमारोहो निषादमारभ्य षड्जपर्यन्तं चावरोहः कार्यः । अन्यास्तु षड्जन्यादयो मूर्च्छनास्तस्मान्मध्यस्थानस्थितात्षड्जादधो ऽपकृष्टस्थाने स्थिता ये मन्द्रनिषादधैवतादयो मन्द्रर्षभपर्यन्ताः षट्, तानारभ्य कर्तव्या: । मध्यमग्राममूर्च्छना लक्षयति- मध्यमध्यममिति । मध्यस्थानस्थितं मध्यममारभ्य सौवीरी मध्यमग्रामे प्रथमा मूर्च्छना भवेत् । अन्यास्तु षड् हारिणाश्वादयस्तस्य मध्यस्थानस्थमध्यमस्याधो ऽधो ऽपकृष्टे स्थाने स्थिताः स्वरा ये गांधारर्षभादयो मन्द्रपञ्चमपर्यन्ताः, तानारभ्य कर्तव्याः । ततश्चैवं मूर्च्छनास्वरूपं भवति - लिपौ बिन्दुशिरा मन्द्रो ज्ञातव्यः, ऊर्ध्वरेखाशिरास्तु तारः, 'मन्द्रो विन्दुशिरा भवेत् । ऊर्ध्वरेखास्तारो लिपौ ' इति वक्ष्यमाणत्वात् । तत्र त्वारोहक्रम एव लिख्यते । अवरोहक्रमस्त्वन्तिमस्वराज्ज्ञातत्रयः । सरिगमपधनि- उत्तरमन्द्रा ॥ १ ॥ निसरिगमपध -- रजनी ॥ २ ॥ धंनिसरिगमप – उत्तरायता ॥ ३ ॥ पंधनिसरिगम - शुद्धषड्जा ॥ ४ ॥ मंपंधंनिसरिग - मत्सरीकृता ॥ ५ ॥ गंपंधंनिसरि - अश्वक्रान्ता ॥ ६ ॥ रिंगमंपंधंनिस - अभिरुद्गता ॥ ७ ॥ मपधनिसेरिंग- सौवीरी ॥ १ ॥ गमपधनिसंरिहारिणाश्वा ॥ २ ॥ रिगमपधनिसकलोपनता ॥ ३ ॥ सरिगमपधनिशुद्धमध्या ॥ ४ ॥ उत्तरमन्द्रायां तु पञ्चमश्चतुः श्रुतिः अस्यां तु त्रिश्रुतिरित्यनयोर्भेदः । निसरिगमपध - मार्गी ॥ ५ ॥ अस्या रजन्याश्च पूर्ववत्पञ्चमेन भेदः । धंनिसरिगमप - पौरवी ॥ ६ ॥ अस्या उत्तरायतायाश्च पूर्ववत्पञ्चमेन भेदः ।
Scanned by Gitarth Ganga Research Institute