________________
क्रमताना: ४] प्रथमः स्वरगताध्यायः
मध्यस्थानस्थपड्जेन मूर्च्छना ऽऽरभ्यते ऽग्रिमा ॥ १२ ॥ अधस्तनैनिपादाद्यैः पडन्या मूर्च्छनाः क्रमात् ।। मध्यमध्यममारभ्य सौवीरी मूर्छना भवेत् ।। १३ ।। पडन्यास्तदधोऽधःस्थस्वरानारभ्य तु क्रमात् । पड्जस्थानस्थितैाथै रजन्याद्याः परे विदुः ।। १४ ॥ हारिणाश्वादिका गाद्यैर्मध्यमस्थानसंस्थितैः ।
ततश्वारूढा अवरूढाश्च क्रमतः सप्त स्वरा मूर्च्छनाशब्दवाच्याः । मूर्च्छनाशब्दव्युत्पत्तिः कथिता मतङ्गेन
'मूर्च्छनाशब्दनिष्पत्तिर्मुर्छा मोहे समुच्छ्ये ।
मूर्यते येन रागो हि मूछनेत्यभिसंज्ञिता ॥' इति । स्वराणामेव मूर्च्छनात्वं न त्वारोहणावरोहणरूपाया: क्रियाया इत्यप्युक्तं तेनैव--
‘आरोहणावरोहणक्रमेण स्वरसप्तकम् ।
मूर्च्छनाशब्दवाच्यं हि विज्ञेयं तद्विचक्षणः ॥' इति । सप्तानां स्वराणामित्युपलक्षणम् , द्वादशस्वराणामपि मूछनानां मतङ्गेन प्रतिपादितत्वात् । तासां भेदान्कथयति--ग्रामद्वय इति । षड्जग्रामे सप्त मूच्छनाः, मध्यमग्रामे च सप्त भवन्ति । तासां नामानि कथयति--षड्ज इति । षड्जग्रामे प्रथमा मूर्च्छनोत्तरमन्द्रा, द्वितीया रजनी, तृतीयोत्तरायता, चतुर्थी शुद्धषड्जा, पञ्चमी मत्सरीकृता, षष्ठयश्वक्रान्ता, सप्तम्यभिरुद्गता । मध्यमग्रामे प्रथमा सौवीरी, द्वितीया हारिणाश्वा, तृतीया कलोपनता, चतुर्थी शुद्धमध्या, पञ्चमी मार्गी, षष्ठी पौरवी, सप्तमी हृष्यकेति ॥ ९-११- ॥
(क०) अधस्तनैर्मन्द्रस्थानभवैः । तदधोऽधःस्थस्वरान् , तस्य मध्यस्थानस्थितमध्यमस्याधोऽधःस्था गांधारर्षभादयः स्वराः, तान् । क्रमादवरोहक्रमेण । लक्ष्यानुरोधेन पक्षान्तरमाह-~-पड्जस्थानस्थितैरिति। मध्य
14
Scanned by Gitarth Ganga Research Institute