SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १०४ संगीतरत्नाकरः ग्राममूर्च्छनामूर्छनेत्युच्यते ग्रामद्वये ताः सप्त सप्त च ॥९॥ पड्जे तूत्तरमन्द्रा ऽऽदौ रजनी चोत्तरायता। शुद्धषड्जा 'मत्सरीकृदश्वक्रान्ता ऽभिरुगता ॥ १० ॥ मध्यमे स्यात्तु सौवीरी हारिणाश्वा ततः परम् । स्यात्कलोपनता शुद्धमध्या मार्गी च पौरवी ॥ ११ ॥ हृष्यकेत्यथ तासां तु लक्षणं प्रतिपाद्यते । स्वराणामिति शुद्धतानव्यावृत्त्यर्थम् । आरोहश्चावरोहणमित्यारोह्यवरोहिद्विविधवर्णालंकारनिवृत्त्यर्थम् । मूर्छनेति । यया करणभूतया रागो मूर्च्यते व्याप्यत इति, श्रोता मुच्छर्यते मोह्यत इति वा 'मुर्छा मोहसमुच्छ्राययोः' इति धातोर्ण्यन्ताधुचि प्रत्यये मूर्च्छनेति रूपम् । यदि पुनर्मतङ्गनन्दिकेश्वरादिभिः प्रयोगे स्थानत्रयव्याप्तिसिद्धयर्थ लक्ष्यानुरोधेन द्वादशस्वरमूर्च्छना अप्युक्ताः, एवमपि लक्ष्ये प्रायेण ग्रामद्वयसंसृष्टप्रयोगदर्शनात्तेनैव स्थानत्रयव्याप्तिः सेत्स्यतीत्यभिप्रायेण न पृथगुक्ताः । तद्विशेषान्ग्रामद्वये ऽपि व्यवहारार्थ नामतो रूपतश्च संख्यापूर्वकं दर्शयति-ग्रामद्वय इत्यादिना । मर्छनेति जातिविवक्षयैकत्वे प्रकृते ऽपि ता इति बहुवचनेन परामर्शो वक्ष्यमाणतद्विशेषापेक्षयेत्युपपद्यते । मध्यस्थानस्थषड्जेनाग्रिमा मूर्च्छनोत्तरमन्द्रा ऽऽरभ्यते । कुतो ऽयं नियमः ? भरतादिनियमितत्वात्तासाम् । यथा ऽऽह भरतः ‘मध्यमस्वरेण वैणवेन मूर्च्छनानिर्देशः' इति ; मतङ्गो ऽपि ' मध्यसप्तकेन मूर्च्छनानिर्देशः कार्यो मन्द्रतारसिद्धयर्थम् ' इति ॥ ९-११- ॥ (सु०) मूर्च्छनां निरूपयति-क्रमादिति । सप्तानां स्वराणामारोहश्चावरोहणं च मूर्छनेत्युच्यते । आरोहावरोहणशब्देन तद्युक्ताः स्वरा उच्यन्ते । 1 मत्सरीकृता ऽश्वक्रान्ता. Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy