________________
१०३
-क्रमतानाः ४] प्रथमः स्वरगताध्याय:
क्रमात्स्वराणां सप्तानामारोहश्चावरोहणम् । लक्षणावसरे पड्जर्षभनिषादपञ्चमहीनाश्चत्वारस्ताना इत्यादिना भरतादिभिमध्यमव्यतिरिक्तानामेव पाडवौडुवकारित्वेन लोपविधानान्मध्यमस्याविनाशित्वमिति ॥ ६-८ ॥
(सु०) ननु कथं षड्जमध्यमगांधाराणामेव ग्रामत्वव्यपदेशो नान्येषां स्वराणामत आह-पड्ज इति । षड्ज: सर्वेषां स्वराणामाद्यः, तस्मात्प्रधानं मुख्यः । अन्यदपि प्राधान्ये कारणमाह-अमात्याधिक्यत इति । अमात्याः संवादिनः, तेषामाधिक्यमन्यस्वरापेक्षया । अन्येषां स्वराणामेकैक एव स्वरः संवादी ; षड्जस्य तु मध्यमपञ्चमो द्वौ संवादिनौ । मध्यमो ऽपि ग्रामे पुर:सर आद्यः; ग्रामव्यपदेशभाग्भवतीति यावत् । कारणमाह-अविलोपित्वादिति । षाडवितत्व औडुवितत्वे च मध्यमस्य लोपो नास्ति । तस्मात्सो ऽपि प्रधानम् । एतयोः षड्जमध्यमयोः कुले देवकुल उत्पन्नत्वाद्गांधारो ऽपि स्वर्गलोके स्वराणामप्रणीराद्यो ग्रामव्यपदेशभाक् । अत एवोक्तं मतङ्गेन-'ननु कथं षड्जमध्यमस्वराभ्यां ग्रामव्यपदेशः? उच्यते--असाधारणत्वेन ताभ्यां ग्रामव्यपदेशः । असाधारणत्वं च देवकुलोत्पन्नत्वेन।' इति । मध्यमस्याविलोपित्वमुक्तं दत्तिलेन
'पञ्चमं मध्यमग्रामे षड्जग्रामे तु धैवतम् ।
अलोपिनं विजानीयात्सर्वत्रैव तु मध्यमम् ॥' इति । ग्रामत्रये ऽप्यधिष्ठातृन्देवान्कथयति-क्रमादिति । गान ऋतुनियम कथयति-हेमन्तेति । ऋतुविशेषेष्वपि पूर्वाह्नादिकालविशेषं गाने नियमयतिपूर्वाह्वेति । ऋतुविशेषेवप्यभ्युदयार्थिभिरिति फलस्य कथितत्वान्नियमे फलमनियमे न दोषः । ग्रामनिरूपणप्रयोजनमुक्तं मतङ्गेन-'स्वरश्रुतिमूच्छनातानजातिरागाणां व्यवस्थापकत्वं नाम प्रयोजनम्' इति ॥ ६--८ ॥ इति ग्रामप्रकरणम् ॥
(क०) ग्रामलक्षणे तदाधेयत्वेन प्रथमोपात्तानां मूर्च्छनानां सामान्यलक्षणमाह-क्रमात्स्वराणामिति । क्रमादिति कूटतानव्यावृत्त्यर्थम् । सप्तानां
Scanned by Gitarth Ganga Research Institute