________________
१०२ संगीतरत्नाकरः
[प्राममूर्च्छनाषड्जः प्रधानमाद्यत्वादमात्याधिक्यतस्तथा । ग्रामे स्यादविलोपित्वान्मध्यमस्तु पुरःसरः ॥६॥ एतत्कुलप्रमूतत्वाद्गांधारो ऽप्यग्रणीदिवि । क्रमाद ग्रामत्रये देवा ब्रह्मविष्णुमहेश्वराः ॥ ७ ॥ हेमन्तग्रीष्मवर्षासु गातव्यास्ते यथाक्रमम् ।
पूर्वाह्नकाले मध्याह्ने ऽपराह्ने ऽभ्युदयार्थिभिः ॥ ८॥ मुक्तम्, इदं तु धैवतप्राधान्येन । 'धैवतप्रधान्यनिरूपणाद्यत्पूर्वोक्तं लक्षणमसंमतमिव भाति तत्परमते, न तु स्वमते । अत एव पञ्चमरहितानां कूटतानानां भेदकपञ्चमाभावादेव पौनरुक्त्यं वक्ष्यति, न धैवताभावेन पौनरुक्त्यमिति । गांधारग्रामस्य क्षितितले ऽनुपयोगे ऽपि शास्त्रस्य सर्वविषयत्वात्तलक्षणं कथयति-रिमयोरिति । गांधार ऋषभस्यान्तिमां श्रुतिं मध्यमस्य चादिमां श्रुतिमाश्रितः संश्चतुःश्रुतिर्भवति । धैवतस्तु पञ्चमस्यान्तिमां श्रुतिमाश्रयति । निषादश्च धैवतस्यान्तिमां श्रुतिं गृहीत्वा षड्जस्य चादिमां श्रुतिं समाश्रितः संश्चतुःश्रुतिर्भवति । तदा तं गांधारग्रामं नारदो मुनिराचष्ट । नारदकथनं प्राशस्त्यार्थ न तु स्वमते ऽन्यथात्वप्रकटनार्थम् ॥ १-५॥
(क०) ननु स्वरप्रयोगवशादिह द्वावेव ग्रामौ स्याताम् ; स्वरान्तरेषु सत्सु किं तयोः षड्जमध्यमविशेषणेनेत्याशङ्कय तत्रोपपत्तिमाह-- षड्ज: प्रधानमिति । अमात्याधिक्यतः, संवादिस्वरबाहुल्यादित्यर्थः । ग्राम प्रधान स्यादित्यन्वयः । अविलोपित्वादिति । मध्यमस्याविलोपित्वं चाधस्तनानां सरिगाणामुपरितनानां पधनीनां च यथासंख्यं द्वयोर्द्वयोरेकत्र तन्त्र्यां संवदनं संवाद इति मतानुसारेणैकाकिनो मध्यमस्यान्येन संवादाभावात्परिशेषादवधिभूतस्य तस्य लोपो नेप्यत इति केषांचिन्मतम् । अन्येषां तु शुद्धतान
1 धैवतप्राधान्यनिरूपणं च संमतं परमतत्वेन. न तु स्वमतत्वेन ।
Scanned by Gitarth Ganga Research Institute