SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ -क्रमतानाः ४] प्रथमः स्वरगताध्यायः १०१ 'यथा कुटुम्बिनः सर्व एकीभूता वसन्ति हि । 'सर्वलोकस्य स ग्रामो यत्र नित्यं व्यवस्थितिः ॥' इति । अथ वा स्वरसमूहस्य ग्रामत्वे ऽव्यवस्थयोच्चारितस्यापि स्वरसमूहस्य ग्रामत्वं स्यात् , तन्निवृत्त्यर्थमुक्तं मूर्च्छनाऽऽदिसमाश्रय इति । यस्तु मूर्च्छनाऽऽदीनामाश्रयः स्वरसमूहः स एव ग्रामशब्देनोच्यते, नाव्यवस्थयोच्चारित: स्वरसमूह इत्यर्थः । तथा चोक्तं संगीतसमयसारकारेण 'स्वराणां मूर्च्छनातानजातिजात्यंशकात्मनाम् । व्यवस्थितश्रुतीनां हि समूहो ग्राम इष्यते ॥' इति । तस्य भेदावाह-तौ द्वाविति । ननु त्रयो ग्रामा इति प्रसिद्धिः; कथं द्वावित्युच्यते ? अत आह–धरातल इति । तत्र तयोर्मध्ये षड्जग्राम आदिमो मुख्यः । द्वितीयो मध्यमग्रामः । अत एव मतङ्गेनोक्तम् 'उभयोमियोर्मध्ये मुख्यत्वं कस्य गण्यते । षड्जस्यैव हि मुख्यत्वं गम्यते वचनान्मुनेः ॥' इति । तयोर्लक्षणं प्रतिज्ञाय कथयति-तयोरिति । पञ्चमे स्वरे स्वकीया या चतुर्थी श्रुतिर्यस्यामसौ स्थापितस्तत्स्थे ऽविकृते षड्जनामः । यद्यपि षड्जनामे ऽन्येषामपि षड्जादीनां स्वराणामविकृतत्वं तथा ऽपि पञ्चमस्यैवाविकृतत्वकथन मध्यमग्रामे पञ्चमस्य विकृतत्वात्तद्वैलक्षण्यप्रतिपादनार्थम् । मध्यमग्रामलक्षणं कथयति-स्वोपान्त्येति । स्वस्योपान्त्या ऽन्त्यायाः श्रुतेः समीपे वर्तमाना या तृतीया श्रुतिस्तत्र संस्थिते ऽस्मिन्पञ्चमे मध्यमग्रामो भवति । यद्यपि धैवतस्य प्रथमा श्रुतिः पञ्चमस्यान्त्यश्रुतेः समीपवर्तिनी भवति, तथा ऽपि सा स्वकीया न भवतीति तन्निवृत्त्यर्थं स्वेत्युक्तम् । इदमेव लक्षणं प्रकारान्तरेण कथयतियद्वेति । धो धैवतः षड्जनामे त्रिश्रुतिः, मध्यमग्रामे तु पञ्चमस्यान्तिमां श्रुति लब्ध्वा चतुःश्रुतिः। अर्थस्तु स एव । किं तु पूर्व पञ्चमस्वरप्राधान्येनोभयोलक्षण 1 सर्वलोकेषु. ५ गण्यते. Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy