SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः [ग्राममूर्च्छनास्वोपान्त्यश्रुतिसंस्थे ऽस्मिन्मध्यमग्राम इष्यते । यद्वा धस्त्रिश्रुतिः षड्जे मध्यमे तु चतुःश्रुतिः ॥ ३ ॥ रिमयोः श्रुतिमेकैकां गांधारश्चेत्समाश्रितः । पश्रुतिं धो निषादस्तु धश्रुतिं सश्रुतिं श्रितः ॥ ४ ॥ गांधारग्राममाचष्ट तदा तं नारदो मुनिः। प्रवर्तते स्वर्गलोके ग्रामो ऽसौ न महीतले ॥ ५ ॥ चतुर्थश्रुतौ करुणाजातिभेद आलापिन्यामादितः सप्तदश्यां स्थिते सति षड्जग्रामः । स्वोपान्त्यश्रुतिसंस्थ इति । स्वोपान्त्यश्रुतावायताभेदे संदीपन्यां षोडश्यां संतिष्ठत इति संस्थः, तस्मिन् । अत्र चतुर्थश्रुतिसंस्थित इत्युपान्त्यश्रुतिसंस्थ इति चैतावत्युक्ते, मध्यमग्रामे मध्यमसाधारणे पञ्चमस्य चतु:श्रुतिकत्वेन स्वतृतीयश्रुतिसंस्थस्यापि मध्यमान्तिमश्रुतिसाहित्येन चतुर्थश्रुतिसंस्थत्वम् , तस्यामवस्थायां स्वद्वितीयश्रुतेरुपान्त्यत्वेनोपान्त्यश्रुतिसंस्थत्वं च संभवतीति तन्निवृत्त्यर्थमुभयत्र स्वशब्दोपादानं कृतम् , तयोस्तृतीयद्वितीययोः श्रुत्योः स्वकीयत्वेन रूपेण चतुर्थत्वोपान्त्यत्वाभावात् । यद्वेत्यभ्युच्चयपक्षः । कुतः ? पञ्चमभेदायत्तत्वेन ग्रामभेदे सिद्धे ग्रामभेदाश्रयणेन धैवतभेदकथनात् , धैवतस्य पञ्चमसंनिधानं विना स्वगतभेदाप्रतीतेः स्वतो ग्रामभेदकत्वाभावाच्च । भेदकत्वकथनं तु धैवतः पञ्चमान्त्यश्रुतिलाभाच्चतु:अतिर्विकृतः संस्तदलाभे शुद्धश्च सन्साक्षाल्लक्षणस्य पञ्चमस्य क्रमात्रिश्रुतित्वं चतुःश्रुतित्वं चावगमयन्ग्रामयोरुपलक्षणं भवतीति ॥ १-५ ॥ (सु०) ग्रामनिरूपणार्थमाह-ग्रामः स्वरसमूह इति । स्वराणां समूहो प्रामशब्देनोच्यते । ननु कथं स्वरसमूहस्य ग्रामशब्दवाच्यत्वम् ? उच्यते-यतो मूर्च्छनाऽऽदे: समाश्रयभूतः, अतः स्वरसमूहो ग्रामः । लोकाश्रयभूतो हि प्राम इत्युच्यते । तदुक्तं मतङ्गेन Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy