________________
प्रथमः स्वरगताध्यायः
९९
अथ चतुर्थ ग्राममूर्छनाक्रमतानप्रकरणम
ग्रामः स्वरसमूहः स्यान्मूर्च्छनाऽऽदेः समाश्रयः । तौ द्वौ धरातले तत्र स्यात्पड्जग्राम आदिमः ॥१॥ द्वितीयो मध्यमग्रामस्तयोर्लक्षणमुच्यते । षड्जग्रामः पञ्चमे स्वचतुर्थश्रुतिसंस्थिते ॥ २ ॥
(क०) एवं स्वरान्निरूप्य व्यस्तानां तेषां दृष्टादृष्टफलोपयोगित्वं नास्तीति तत्सिद्धये नियतसमस्तस्वरसंनिवेशरूपान्मूर्च्छनाऽऽदीन्निरूपयिष्यंस्तदाश्रयत्वाद्यवस्थापकत्वाच्च ग्रामयोः प्रसक्तयोस्तत्सामान्यलक्षणं तावदाह-ग्राम इति । ग्रामवद् ग्रामः । यथा लोके जनसमूहो ग्राम इत्युच्यते, एवमत्र स्वरसमूहो ग्राम इति विवक्षितः । स्वरसमूहो ग्राम इत्येतावत्युच्यमाने लौकिकवैदिकवाक्येप्वपि स्वरसमहत्वसंभवात्तत्रातिव्याप्तिः स्याल्लक्षणस्य । तव्यावृत्त्यर्थ मूर्च्छनाऽऽदेः समाश्रय इति विशेषणम् । अत्रादिशब्देन क्रमतानवर्णालंकारजात्यादयो गृह्यन्ते । सामान्यलक्षणे ग्राम इति जातावकत्वनिर्देशादविशेषेण सप्तानामपि स्वराणां ग्रामविशेषणत्वे प्राप्ते, त्रयाणामेव तद्विशेषणत्वमवगमयन्यामविशेषलक्षणानि लोकव्यवस्थापूर्वकमाह-तौ द्वावित्यादिना। ननु समहित्वाविशेषेण सप्तानामपि ग्रामव्यपदेशकत्वसंभवे कथं धरातले द्वावित्यवधारणमिति चेत्तत्रोच्यते--शुद्धविकृतरूपेण द्विविधस्वरप्रयोगवशात् ,
'द्वौ ग्रामौ विश्रुतौ लोके पड्जमध्यमसंज्ञकौ' इति मुनिवचनाच्च शुद्धाश्रयत्वात्षड्जग्राम आदिमो विकृताश्रयत्वाद्वितीयो मध्यमग्राम इत्युपपद्यत इति । स्वचतुर्थश्रुतिसंस्थित इति । स्वकीय
1.मूर्च्छनादिसमाश्रयः
Scanned by Gitarth Ganga Research Institute