________________
९८
संगीतरत्नाकर:
अष्टमस्य तृतीयं तु हरिबीजसमन्वितम् । आद्यं स्वरं स्वरज्ञस्तु उद्धरेत्स प्रयत्नतः ॥ सप्तमस्य द्वितीयं तु कामबीजसमन्वितम् । उद्धरेत्तु स्वरं नित्यं सौरभेयं मनोहरम् ॥ द्वितीयस्य तृतीयं तु हरिबीजसमन्वितम् । समुद्धरेत्तृतीयं तं सरसं स्वरमुत्तमम् ॥ स्यापि हि वर्गस्य अन्तिमं चादिसंयुतम् । अविनष्टं विजानीयान्मध्यम स्वरमुत्तमम् ॥ तदादि प्रथमोपेतं स्वरं संविद्धि शोभनम् । व्योमसंख्या समायुक्तमोष्ठस्थानसमुद्भवम् ॥ पञ्चस्यापि वर्गस्य चतुर्थं चादिभूपितम् । कोदण्डद्वय संभूतमुद्धरेत्स्वरमुत्तमम् ॥ अकारान्तान्तसंभिन्नं पञ्चमान्तं समुद्धरेत् । ब्रह्मस्थानसमुद्भूतं सुतारध्वनिसंयुतम् || आगमस्थः स्वरोद्धार एवं तावत्प्रदर्शितः । '
[नाद०रसा : ३]
इति ॥ -५८, १८- ॥ अथ स्वराणां रसव्यञ्जक नियममाह--सरी इति । षड्जर्षभौ वीराद्भुतरौद्रेषु धैवतो बीभत्सभयानकयोः ; गांधारनिषादौ करुणे ; मध्यमपञ्चमौ हास्यशृङ्गारयोरिति ॥ -५९, ५९ ॥
इति प्रथमे स्वरगताध्याये नादस्थानश्रुतिस्वरजातिकुलदैवतर्पिच्छन्दोरसप्रकरणम् ॥ ३॥
14 'सौरभेयमृषभम्' इति सुधाटिप्पणी.
Scanned by Gitarth Ganga Research Institute