________________
- ०रसा: ३]
प्रथमः स्वरगताध्यायः
९७
धैवतः पीतवर्णः ; निषादः कर्बुरो विचित्रवर्णः ॥ -५४ || अधुना ऽमूनां स्वराणां जन्मभूमी: प्रतिज्ञाय कथयति - एषां जन्मभूमीरिति । जम्बूद्वीपे षड्जस्योत्पत्तिः; शाकद्वीप ऋषभस्य ; कुशद्वीपे गांधारस्य ; क्रौञ्चद्वीपे मध्यमस्य ; शाल्मलीद्वीपे पञ्चमस्य; श्वेतद्वीपे धैवतस्य; पुष्करद्वीपे निषादस्य । नन्विदं द्वीपोत्पत्तिकथनं कुत्रोपयुज्यते ? स्वराणां सप्तत्वनिश्चय इति ब्रूमः । तथा चोक्तं मतङ्गेन - ' ननु कथं सप्त स्वरा इति नियमः ? उच्यते - यथा सप्तधात्वाश्रितत्वेन सप्तैव धातवो रसादयो ज्ञेयाः; तथा चाह सुश्रुत:
'त्वगसृङ्मांसमेदोऽस्थिमज्जशुक्लानि धातवः । '
इति ; तथा सप्तचक्राश्रितत्वेन सप्तद्वीपाश्रितत्वेन वा सप्तैव स्वरा इति । ननु काकल्यन्तरयोरपि स्वरान्तरयोः सद्भावात्कथं सप्तैव स्वरा इति नियमः सिध्यति ? नव स्वरा इति हि वक्तव्यम्; मैवम्, अनंशत्वादनयोः स्वरान्तरत्वं नास्ति; विकृतनिषादस्यैव काकलीत्वं विकृतगांधारस्यैवान्तरत्वम् । तथा चोक्तं दत्तिलेन
'निषादः काकलीसंज्ञां द्विश्रुत्युत्कर्षणाद्भवेत् । गांधारस्तद्वदेव स्यादन्तरस्वरसंज्ञितः ॥ अनंशत्वात्तु भेदेन स्वरत्वं नोच्यते तयोः । अतो निषादगांधार वतावाद्यैरुदाहृतौ ॥ '
इति ॥ ५५, ५५- ॥ अथ स्वराणां द्रष्टृनृषीन्कथयति – वह्निरिति । षड्जस्यर्विह्निः ; ऋषभस्य ब्रह्मा; गांधारस्य चन्द्रः ; मध्यमस्य विष्णुः ; पञ्चमस्य नारद: ; धैवतनिषादयोस्तुम्बुरुः ॥ - ५६, ५६- ॥ देवताः कथयति-वह्नीति ॥ -५७, ५७ - ॥ छन्दांसि कथयति — क्रमादनुष्टुबिति । ननु स्वराणाम् ' पद्माभ: - ' इत्यादि वर्णनिरूपणमृषिदैवतच्छन्दोनिरूपणं च कुत्रोपयुज्यते ? स्वरोपासनायामित्यवेहि । यदा स्वराणां बीजै: षड्जादयः स्वरा उपास्यन्ते तदा तेषामृषिदेवताच्छन्दांसि स्मर्तव्यानि वर्णाश्च ध्येयाः । अत एव स्वराणां बीजान्युक्तानि मतङ्गेन । यथा
'वर्गाष्टकं तु संप्राप्य अकारादि यशान्तकम् । वर्णमात्रासमायुक्तमुद्धरेत्स्वरसप्तकम् ॥
13
Scanned by Gitarth Ganga Research Institute