SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १६ संगीतरत्नाकरः [.कुलर्षिच्छन्दोपञ्चमः पितृवंशोत्थो रिधाषिकुलोद्भवौ ।। ५२ ॥ निषादो ऽसुरवंशोत्थो ब्राह्मणाः समपञ्चमाः ।। रिधौ तु क्षत्रियौ ज्ञेयौ वैश्यजाती निगौ मतौ ।। ५३ ।। शूद्रावन्तरकाकल्यौ स्वरौ वर्णास्त्विमे क्रमात । पद्माभः पिञ्जरः स्वर्णवर्णः कुन्दप्रभो ऽसितः ॥ ५४ ।। पीतः कर्बुर इत्येषां जन्मभूमीरथ ब्रुवे । जम्बूशाककुशक्रौञ्चशाल्मलीश्वेतनामसु ।। ५५ ।। द्वीपेषु पुष्करे चैते जाताः पड्जादयः क्रमात् । वहिर्वेधाः शशाङ्कश्च लक्ष्मीकान्तश्च नारदः ॥ ५६ ॥ ऋषयो ददृशुः पञ्च पड्जादींस्तुम्बुरुर्धनी।। वहिब्रह्मसरस्वत्यः शर्वश्रीशगणेश्वराः ॥ ५७ ।। सहस्रांशुरिति प्रोक्ताः कमात्पड्जादिदेवताः । क्रमादनुष्टुब्गायत्त्री त्रिष्टुप्च बृहती ततः ॥ ५८ ।। पङ्क्तिरुष्णिकच जगतीत्याहुश्छन्दांसि सादिषु । सरी वीरे अद्भुते रौद्रे धो वीभत्से भयानके ॥ ५९ ।। कार्यों गनी तु करुणे हास्यशृङ्गारयोर्मपौ । (सु०) इदानीं घड्जादीनां स्वराणां कुलानि कथयति-गीर्वाणेति । षड्जगांधारमध्यमास्त्रयः सुरवंशसमुत्पन्नाः; पञ्चमः पितृवंशोद्भवः; ऋषभधैवतावृषिवंशोद्भवौ ; निषादो ऽसुरवंश्यः । इदानी ब्राह्मणत्वादिवर्णविशेष कथयति-ब्राह्मणा इति । षड्जमध्यमपञ्चमा ब्राह्मणाः; ऋषभधैवतौ क्षत्रियों ; निषादगांधारौ वैश्यौ ; अन्तरकाकल्यौ शूद्रौ । तयोस्तु लक्षणं मूछनाप्रकरणे वक्ष्यति ।। ५१-५३- || अधुना तु सितादिवर्णविशेषं कथयति-पद्माभ इति । पमाभो रक्तवर्णः षड्जः ; ऋषभस्तु पिञ्जर ईषत्पीतवर्णः ; गांधारः स्वर्णवर्णो ऽतिपीतवर्णः; मध्यमः कुन्दवर्णः शुभः ; पञ्चमो ऽसितः कृष्णवर्णः ; Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy