SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ -०रसाः ३] प्रथमः स्वरगताध्यायः नृपामात्यानुसारित्वादनुवादी तु भृत्यवत् ॥ ५१ ।। गीर्वाणकुलसंभूताः षड्जगांधारमध्यमाः । वादित्वमुक्तम् | नन्वनुवादी स्वरः किमनुवदति ? यद्वादिना रागस्य रागत्वं संपादित तत्प्रतिपादकत्वं नामानुवादित्वम् । ततश्च षड्जस्थान ऋषभः प्रयुज्यमान ऋषभस्थाने च षड्जः प्रयुज्यमानो जातिरागविनाशकरो न भवति ; पञ्चमस्थाने धैवतः प्रयुज्यमानो धैवतस्थाने च पञ्चमः प्रयुज्यमानो जातिरागविनाशकरो न भवति; षड्जस्थाने धैवतः प्रयुज्यमानो धैवतस्थाने च षड्जः प्रयुज्यमानो जातिरागविनाशकरो न भवति ; तथा पञ्चमस्थान ऋषभः प्रयुज्यमान ऋषभस्थाने च पञ्चमः प्रयुज्यमानो जातिरागविनाशकरो न भवति ; मध्यमस्थान ऋषभ ऋषभस्थाने च मध्यमस्तथा धैवतस्थाने मध्यमो मध्यमस्थाने च धैवतः प्रयुज्यमानो जातिरागनाशको न भवतीति । ऋषभगांधारयोश्चैकश्रुत्यन्तरहीनत्वेनानुवादित्वे प्राप्ते द्वयन्तरत्वाद्विवादित्वम् । एवं षड्जग्रामे वादिसंवादिविवाद्यनुवादिविचारः । एवमेव मध्यमग्रामे ऽपि पञ्चमस्य तृतीयश्रुत्यवस्थितत्वात्कचिद्विकृतो ऽयमेव विचारो बोद्धव्यः । तत्र षड्जस्य संवादी मध्यमः ; ऋषभस्य धैवतपञ्चमौ ; गांधारस्य निषादः ; मध्यमस्य षड्जनिषादौ; पञ्चमस्यर्षभः; धैवतस्यर्षभः; निषादस्य गांधारमध्यमाविति । विवादित्वं ग्रामद्वये ऽपि समानमेव । षड्जस्य पञ्चमधैवतर्षभा अनुवादिनः ; ऋषभस्य षड्जमध्यमौ ; गांधारनिषादयोः सर्वविवादित्वादनुवादित्वं नास्ति ; मध्यमस्यर्षभधैवतौ ; पञ्चमस्य मध्यमधैवतौ ; धैवतस्य मध्यमपञ्चमाविति ज्ञातव्यम् । एतेषां वाद्यादीनां प्रधानगुणभावमाह-वादी राजेति । यथा राजा मुख्यस्तथा वादी, अन्येषां तदनुसारित्वात् । संवादी त्वस्य वादिनः प्रधानपुरुषतुल्यः; कुत: ? अनुसारित्वात्सहवृत्तेः, अत एवामा सह वसतीत्यमात्य इत्यमात्यशब्देनाभिधीयते। विवादी तु रिपुतुल्यो विपरीतत्वात ; अननुसारित्वादित्यर्थः । अनुवादी सेवकवत् ; नृपो वादी, अमात्यः संवादी, तदनुसारित्वात् । भृत्यो ऽप्युभयानुसारी भवति ॥ -४६-५१ ॥ (क०) ज्ञात्वा प्रयोगे ऽदृष्टातिशयो ऽप्यस्तीति स्वराणां कुलादीन्युद्देशकमेणाह-गीर्वाणकुलेत्यादिना ॥ ५२-५९- ॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy