________________
९४ संगीतरमाकरः
[०स्वरकुललक्षणं कथयति-श्रुतय इति । द्वादशाष्टौ वा श्रुतयो ययोरन्तरे वर्तन्ते तौ मिथः परस्परं संवादिनौ भवतः । ननु मतङ्गेन त्रयोदशनवश्रुत्यन्तरत्वेन संवादित्वमुक्तम् ; यदाह-'संवादिनस्तु पुनः समश्रुतिकत्वे सति त्रयोदशनवान्तरत्वे वा ऽन्योऽन्यं बोद्धव्याः' इति । दत्तिलेनाप्युक्तम्--
'मिथः संवादिनौ ज्ञेयौ त्रयोदशनवान्तरौ ।' इति; तत्कथमुच्यते 'श्रुतयो द्वादशाष्टौ वा ययोरन्तरगोचराः' इति ? उच्यते--ययोः श्रुत्योः स्वराववस्थितौ ते श्रुती विहाय मध्यस्थाः श्रुतयो द्वादशाष्टौ वा यदि भवन्ति तदा तयोः संवादित्वमित्यनेनाभिप्रायेणैवमुक्तम् । मतङ्गादिभिस्तु यो यस्य संवादी तस्यावस्थानश्रुतिमपि मध्ये गणयित्वा त्रयोदशनवान्तरत्वमुक्तमिति न कश्चिद्विसंवादः । ततः षड्जस्य मध्यमपञ्चमौ संवादिनौ, ऋषभस्य धैवतः, गांधारस्य निषादः, मध्यमस्य षड्जः, पश्चमस्य षड्जः, धैवतस्यर्षभः, निषादस्य गांधार इति । ननु संवादित्वेन क उपयोगः? बूम:यस्मिन्गीते यो ऽशत्वेन परिकल्पितः षड्जस्तस्य स्थाने मध्यमः क्रियमाणो जातिरागनाशको न भवति ; यस्मिन्वा इंशत्वेन मूछनावशान्मध्यमः प्रयुक्तस्तस्य स्थाने षड्जः प्रयुज्यमानो जातिरागनाशको न भवति ; षड्जपञ्चमयोः स्थाने पञ्चमषड्जौ प्रयुज्यमानौ जातिरागहानिकरौ न भवतः; एवमृषभधैवतयोः स्थाने धैवतर्षभौ प्रयुज्यमानौ जातिरागविनाशकरौ न भवतः ; गांधारनिषादयोः स्थाने निषादगांधारौ प्रयुज्यमानौ जातिरागहानि न कुरुत इति । विवादिलक्षणमाह-निगाविति । निषादगांधारावन्येषां सर्वेषां स्वराणां विवादिनौ। पक्षान्तरमाह-रिधयोरिति । तौ निषादगांधारावृषभधैवतयोरेव विवादिनाविति । तृतीयं पक्षमाह-तयोरिति । तयोनिषादगांधारयोर्ऋषभधैवतौ विवादिनाविति । मतङ्गेन तु द्विश्रुत्यन्तरितत्वेन विवादित्वमुक्तम् ; यदाह 'द्वयन्तरौ तु स्वरौ विवादिनौ' इति । ननु किमिदं विवादित्वम् ? ब्रूमः-वाद्यादिभिः स्वरैयद्रागस्य वादित्वं संवादित्वमनुवादित्वं वा प्राप्तं तद्विनाशकत्वं नाम विवादित्वम् । ततश्चर्षभस्थाने यदा गांधारः प्रयुज्यते गांधारस्थाने वर्षभस्सदा जातिरागहानिभवति । अनुवादिलक्षणं कथयति-शेषाणामिति । येषां परस्परं संवादित्वं विवादित्वं वा नास्ति तेषामनुवादित्वम् । मतङ्गेन त्वेकश्रुत्यन्तरहीनत्वेनानु
Scanned by Gitarth Ganga Research Institute