SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ - रसाः ३] प्रथमः स्वरगताध्यायः शेषाणामनुवादित्वं वादी राजा ऽत्र गीयते । संवादी त्वनुसारित्वादस्यामात्यो ऽभिधीयते ।। ५० ॥ विवादी विपरीतत्वाद्धीरैरुक्तो रिपूपमः । पक्षान्तरमाह-रिधयोरेव वेति । प्रथममन्यविवादिनावित्यविशेण कथनं तु समश्रुतिकयोरेव संवाद इति मतानुसारेण । अतो द्वादशाष्टश्रुत्यन्तरितत्वमात्रमेव संवादिलक्षणमिति सिद्धं भवति । तौ तयोर्वेति । तौ रिधी तयोगियोर्विवादिनौ म्तः । एतेनैकश्रुत्यन्तरितौ परस्परं विवादिनाविति लक्षणं सूचितं भवति । 'द्वयन्तरत्वाद्विवादित्वमुक्तम्' इति मतङ्गोक्तस्यापि द्वयोरेकस्वराधारश्रुत्या सह द्वयन्तरत्वस्य विवक्षितत्वादेकश्रुत्यन्तरितत्वमेवार्थः । एवम् 'त्रयोदशनवान्तरम्' इति मतङ्गोक्तस्य संवादिलक्षणस्यापि द्वादशाष्टान्तरत्वमेवार्थः । अतः शुद्धावस्थायां रिगयोर्धन्योश्च यथा परस्परं विवादः, तथा विकृतावस्थायां गमयोनिसयोश्च विवादो द्रष्टव्यः । अयमभिप्रायः-वादिसंवाद्यनुवादिनां परस्परं स्थानव्यत्ययेन प्रयोगे ऽपि जातिरागहानिर्न भवति ; विवादिनस्तु प्रयोगे जातिरागहानिर्भवेदिति । शेषाणां वाद्यादिलक्षणरहितानाम् । अथ प्रयोगे वाद्यादीनां प्रधानोपसर्जनभावेन तारतम्यं सदृष्टान्तं दर्शयति-वादी राजेत्यादिना ॥ -४६-५१ ॥ (सु०) एतेषां स्वराणां स्वरूपज्ञानार्थमसाधारणानुच्चारयितन्कथयतिमयूरेति । मयूर: षड्जमुचारयति, चातक ऋषभम् , छागो गांधारम् , क्रौञ्चो मध्यमम् , कोकिलः पञ्चमम् , ददुरो धैवतम् , गजो निषादमिति ।। -४६, ४६- ॥ स्वराणां चातुर्विध्यं कथयति-चतुर्विधा इति । वादिनो लक्षणं कथयतिवादी त्विति । प्रयोगे जातिरागादौ बहुलो बाहुल्येन य उच्चार्यते सो ऽशस्वरापरपर्यायो वादी । ननु वदतीति वादी ; वदनं च प्राणिधर्मः कथमचेतनानां स्वराणां संभवति? सत्यम् ; वदनं हि नामात्र रागप्रतिपादकत्वं विवक्षितम् ; ततश्च रागाणां रागत्वं वदन्ति प्रतिपादयन्तीति वादिनः ।। -४७, ४७ ॥ संवादि Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy