________________
संगीतरत्नाकरः
[.स्वरचतुर्विधाः स्वरा वादी संवादी च विवाद्यपि ॥ ४७ ॥ अनुवादी च वादी तु प्रयोगे बहुलः स्वरः । श्रुतयो द्वादशाष्टौ वा ययोरन्तरगोचराः ॥ ४८ ।। मिथः संवादिनौ तौ स्तो निगावन्यविवादिनौ ।
रिधयोरेव वा स्यातां तौ तयोर्वा रिधावपि ॥ ४९ ॥ चतुर्विधा इति । वदनाद्वादी । ननु वदनादिकं प्राणिधर्मः कथमचेतनानां स्वराणां संभवति ? सत्यम् ; वदनं हि नाम रागप्रतिपादकत्वं विवक्षितम् , न वचनमित्यदोषः । संवदनात्संवादी । संवदनं नाम यद्वादिना स्वरेण रागम्य रागत्वं जनितं तन्निर्वाहकत्वम् । विवदनाद्विवादी । विवदनं नाम वाद्यादिभिः स्वरैरुत्पाद्यमानाया रक्तेविनाशकत्वम् । अनुवदनादनुवादी । अनुवदनं नाम वादिसंवादिसंपादितरक्त्यनुकूलत्वम् । क्रमेण तालक्षयतिवादी वित्यादिना । प्रयोगे जात्यादौ बहुलो ग्रहत्वन्यासत्वादिभेदेन पुनः पुनरावृत्तः । संवादिलक्षणपरिज्ञानार्थमादौ मण्डलप्रस्तारं वीणाप्रस्तारं वा लिग्वेत् । तत्र मण्डलप्रस्तारो यथा-षडूवरेखा लिखित्वा तदूर्वाधः किंचिदग्राण्यवशेप्य मध्ये पञ्च तिर्यग्रेखाः किंचिदग्रावशेषं लिखेत् । तदा परितो रेखाऽग्राणि द्वाविंशतिर्भवन्ति । वीणाप्रस्तारस्तु--तिर्यग्रेखा एव द्वाविंशतिं लिग्वेत् । तत्र वामतो दक्षिणतो वा रेखाऽग्राणि द्वाविंशतिर्भवन्ति । तत्रैकस्मिश्रुतिमण्डले शुद्धान्विकृतान्वा षड्जादीस्वस्वश्रुतिसंख्यया विलिखेत् । तेषु ययोः स्वरयोरन्तरगोचराः स्वाधारश्रुती विहाय मध्यवर्तिन्यः श्रुतयो द्वादशाष्टौ वा दृश्यन्ते तो मिथः संवादिनौ भवत इति ज्ञातव्यम् । निगावन्यविवादिनाविति । अन्येषां पञ्चानां विवादिनौ विरोधिनौ। ननु निगयोरितरान्पश्चापि स्यरान्प्रति यियादित्यमुक्तम् ; तदनुपपन्नम् , शुद्धयोर्मध्यमनिषादयोः परस्परं संवादित्वदर्शनादित्यपरितोषेण
Scanned by Gitarth Ganga Research Institute