________________
-०रसा: ३]
प्रथमः स्वरगताध्यायः मयूरचातकच्छागक्रौञ्चकोकिलदर्दुराः ॥ ४६ ।। गजश्च सप्त षड्जादीन्क्रमादुच्चारयन्त्यमी ।
मध्यमस्य प्रथमां श्रुति गांधारो गृह्णाति । तदा त्रिश्रुतिर्विकृतो भवति । 'अन्तरस्तु गांधारो मध्यमस्यायं श्रुतिद्वयं गृह्णाति । तदा चतुःश्रुतिः सन्विकृतो भवति ॥४२॥ मध्यमस्य द्वौ विकृतौ भेदौ कथयति-मध्यम इति । षड्जो यथा च्युतत्वेनाच्युतत्वेन च द्वेधा विकृत: कथित: स्वसाधारणे निषादस्य च काकलीत्वे, तद्वन्मध्यमसाधारणे गांधारस्यान्तरत्वे च मध्यमो ऽपि द्वेधा विकृतो भवति ।
'मध्यमस्यापि गपयोरेवं साधारणं मतम् । ' इति,
'. . . . मध्यमस्य गांधारस्त्वन्तरः स्वरः ।' इति च मध्यमसाधारणं गांधारस्यान्तरत्वं च वक्ष्यते ॥ ४२ ॥ पञ्चमस्य द्वधा विकृतत्वं कथयति-पञ्चम इति । पञ्चमे तृतीयश्रुतिसंस्थिते सति मध्यमग्राम इति वक्ष्यते । तस्मिन्मध्यमग्रामे त्रिश्रुति: पञ्चमो विकृतो भवति । पुनश्च कैशिके मध्यमसाधारणे मध्यमस्यान्तिमां श्रुतिं प्राप्य चतुःश्रुतिः सन्विकृतो भवति ॥-४३, ४३- ॥ धैवतस्यैकधा विकृतत्वं कथयति-धैवत इति । मध्यमग्रामे पञ्चमस्य तृतीयश्रुताववस्थितत्वादन्तिमा पञ्चमस्य श्रुतिधैवतं प्रविशति । स तदा चतुःश्रुतिर्विकृतो भवति ॥-४४ ॥ निषादस्य द्विधा विकृतत्वं कथयतिकैशिक इति । कैशिके षड्जसाधारणे निषादः षड्जस्य प्रथमश्रुतौ यदा तिष्ठति, सदा त्रिश्रुतिः सन्विकृतः; यदा तु काकली भवन्षड्जस्य श्रुतिद्वयं गृहीत्वा चत:श्रुतिर्भवति तदा ऽपि विकृतः । एवं द्वादश विकृतभेदाः । विकृतानां शुद्धानामप्येकोनविंशतिभेदा भवन्तीत्याह-तैरिति ।। ४५, ४५- ॥
(क०) लोकतो ऽपि षड्जादिस्वरूपपरिज्ञानाय मयूरादिप्राणिविशेषध्यनि निदर्शनाभिप्रायेणाह-मयूरेति । स्वराणामन्योऽन्यं स्वरूपकृतं भेदमुक्त्या प्रसङ्गात्प्रयोगार्थ प्रकारभेदेन तेषां चातुर्विध्यं दर्शयति
अन्तरस्वरस्तु.
Scanned by Gitarth Ganga Research Institute